Skip to main content
पडताळणी प्रलंबित

बालकाण्ड विंशः

॥ दशरथवाक्यम् ॥

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।

मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावानिदमब्रवीत् ॥ १ ॥

ऊनषोडशवर्षो मे रामो राजीवलोचनः ।

न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २ ॥

इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः ।

अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः ॥ ३ ॥

इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।

योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ ४ ॥

अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।

यावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ ५ ॥

निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।

अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥ ६ ॥

बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।

न चास्त्रबलसम्युक्तो न च युद्धविशारदः ॥ ७ ॥

न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् ।

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥ ८ ॥

जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।

यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत ॥ ९ ॥

चतुरङ्गसमायुक्तं मया च सह तं नय ।

षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥ १० ॥

दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ।

चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥ ११ ॥

ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ।

किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ॥ १२ ॥

कथं प्रमाणाः के चैतान्रक्षन्ति मुनिपुङ्गव ।

कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥ १३ ॥

मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम् ।

सर्वं मे शंस भगवन्कथं तेषां मया रणे ॥ १४ ॥

स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ।

तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ १५ ॥

पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।

स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥ १६ ॥

महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।

श्रूयते हि महावीर्यो रावणो राक्षसाधिपः ॥ १७ ॥

साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।

यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ॥ १८ ॥

तेन सञ्चोदितौ द्वौ तु राक्षसौ सुमहाबलौ ।

मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ १९ ॥

इत्युक्तो मुनिना तेन राजोवाचमुनिं तदा ।

न हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः ॥ २० ॥

स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।

मम चैवाल्पभाग्यस्य दैवतं हि भवान्गुरुः ॥ २१ ॥

देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।

न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ २२ ॥

स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ।

तेन चाहं न शक्नोमि सम्योद्धुं तस्य वा बलैः ॥ २३ ॥

सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।

कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम् ॥ २४ ॥

बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् ।

अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥ २५ ॥

यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ।

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥ २६ ॥

तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः ।

[* अन्यथा त्वनुनेष्यामि भवन्तं सह बान्धवैः । *]

इति नरपतिजल्पनाद्द्विजेन्द्रं

कुशिकसुतं सुमहान्विवेश मन्युः ।

सुहुत इव मखेऽग्निराज्यसिक्तः

समभवदुज्ज्वलितो महर्षिवह्निः ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥ २० ॥

valmiki ramayan balkand adhyay 20