Skip to main content
पडताळणी प्रलंबित

बालकाण्ड द्विचत्वारिंशः

॥ भगीरथवरप्रदानम् ॥

कालधर्मं गते राम सगरे प्रकृतीजनाः ।

राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १ ॥

स राजा सुमहानासीदंशुमान्रघुनन्दन ।

तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ २ ॥

तस्मिन्राज्यं समावेश्य दिलीपे रघुनन्दन ।

हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ ३ ॥

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।

तपोवनं गतो राम स्वर्गं लेभे महायशाः ॥ ४ ॥

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।

दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ ५ ॥

कथं गङ्गावतरणं कथं तेषां जलक्रिया ।

तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ॥ ६ ॥

तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।

पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ ७ ॥

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।

त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ ॥

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।

व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ ९ ॥

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।

राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ १० ॥

भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।

अनपत्यो महातेजाः प्रजाकामः स चाप्रजाः ॥ ११ ॥

मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः ।

स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन ॥ १२ ॥

ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ।

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥ १३ ॥

अतीतानि महबहो तस्य राज्ञो महात्मनः ।

सुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः ॥ १४ ॥

ततः सुरगणैः सार्धमुपागम्य पितामहः ।

भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ १५ ॥

भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर ।

तपसा च सुतप्तेन वरं वरय सुव्रत ॥ १६ ॥

तमुवाच महातेजाः सर्वलोकपितामहम् ।

भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ १७ ॥

यदि मे भगवन्प्रीतो यद्यस्ति तपसः फलम् ।

सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥ १८ ॥

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।

स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १९ ॥

देया च सन्ततिर्देव नावसीदेत्कुलं च नः ।

इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥ २० ॥

उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।

प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ २१ ॥

मनोरथो महानेष भगीरथ महारथ ।

एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥ २२ ॥

इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता ।

तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ २३ ॥

गङ्गायाः पतनं राजन्पृथिवी न सहिष्यति ।

तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ २४ ॥

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।

जगाम त्रिदिवं देवः सह देवैर्मरुद्गणैः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥

valmiki ramayan balkand adhyay 42