Skip to main content
पडताळणी प्रलंबित

बालकाण्ड चतुर्विंशः

॥ ताटकावनप्रवेशः ॥

ततः प्रभाते विमले कृताऽऽह्निकमरिन्दमौ ।

विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १ ॥

ते च सर्वे महात्मानो मुनयः संश्रितव्रताः ।

उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ २ ॥

आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।

अरिष्ठं गच्छ पन्थानं मा भूत्कालस्य पर्ययः ॥ ३ ॥

विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च ।

ततार सहितस्ताभ्यां सरितं सागरं‍गमाम् ॥ ४ ॥

ततः शुश्राव तं शब्दमतिसंरम्भवर्धनम् ।

मध्यमागम्य तोयस्य सह रामः कनीयसा ॥ ५ ॥

अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।

वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ ६ ॥

राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् ।

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ ७ ॥

कैलासपर्वते राम मनसा निर्मितं सरः ।

ब्रह्मणा नरशार्दूल तेन इदं मानसं सरः ॥ ८ ॥

तस्मात्सुस्राव सरसः साऽयोध्यामुपगूहते ।

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ ९ ॥

तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ।

वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु ॥ १० ॥

ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।

तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ ११ ॥

स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ १२ ॥

अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।

भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारुतैः ॥ १३ ॥

नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवैःस्वनैः ।

सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ १४ ॥

धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ।

सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ १५ ॥

तमुवाच महातेजा विश्वामित्रो महामुनिः ।

श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥ १६ ॥

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।

मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ १७ ॥

पुरा वृत्रवधे राम मलेन समभिप्लुतम् ।

क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ १८ ॥

तमिन्द्रं स्नापयन्देवा ऋषयश्च तपोधनाः ।

कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ १९ ॥

इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव च ।

शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ॥ २० ॥

निर्मलो निष्करूशश्च शुचिरिन्द्रो यदाऽभवत् ।

ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ २१ ॥

इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।

मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ २२ ॥

साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।

देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ २३ ॥

एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम ।

मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ २४ ॥

कस्यचित्वथ कालस्य यक्षी वै कामरूपिणी ।

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ॥ २५ ॥

ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ।

मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥ २६ ॥

वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान् ।

राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ २७ ॥

इमौ जनपदौ नित्यं विनाशयति राघव ।

मलदांश्च करूशांश्च ताटका दुष्टचारिणी ॥ २८ ॥

सेयं पन्थानमावृत्य वसत्यध्यर्धयोजने ।

अत एव च गन्तव्यं ताटकाया वनं यतः ॥ २९ ॥

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।

मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥ ३० ॥

न हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् ।

यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ ३१ ॥

एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।

यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥

valmiki ramayan balkand adhyay 24