Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड त्रयोदशः

॥ पञ्चवटीगमनम् ॥

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ।

अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ।

व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ २ ॥

एषा हि सुकुमारी च दुःखैश्च न विमानिता ।

प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ ३ ॥

यथैषा रमते राम इह सीता तथा कुरु ।

दुष्करं कृतवत्येषा वने त्वामनुगच्छती ॥ ४ ॥

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।

समस्थमनुरज्यन्ति विषमस्थं त्यज्यन्ति च ॥ ५ ॥

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।

गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥ ६ ॥

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।

श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ ७ ॥

अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह ।

वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ॥ ८ ॥

एवमुक्तः स मुनिना राघवः सम्यताञ्जलिः ।

उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ ९ ॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः ।

गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥ १० ॥

किं तु व्यादिश मे देशं सोदकं बहुकाननम् ।

यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ११ ॥

ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः ।

ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥ १२ ॥

इतो द्वियोजने तात बहुमूलफलोदकः ।

देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः ॥ १३ ॥

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ।

रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ १४ ॥

कालोऽयं गतभूयिष्ठो यः कालस्तव राघव ।

समयो यो नरेन्द्रेण कृतो दशरथेन ते ॥ १५ ॥

तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि ।

धन्यस्ते जनको राम स राजा रघुनन्दन ॥ १६ ॥

यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ।

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ॥ १७ ॥

तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ।

हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ॥ १८ ॥

इह वासं प्रतिज्ञाय मया सह तपोवने ।

वसन्तं त्वां जनाः सर्वे ज्ञास्यन्ति रघुनन्दन ॥ १९ ॥

अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ।

स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥ २० ॥

स देशः श्लाघनीयश्च नातिदूरे च राघव ।

गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥ २१ ॥

प्राज्यमूलफलश्चैव नानाद्विजगणायुतः ।

विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥ २२ ॥

भवानपि सदारश्च शक्तश्च परिरक्षणे ।

अपि चात्र वसन्राम तापसान्पालयिष्यसि ॥ २३ ॥

एतदालक्ष्यते वीर मधूकानां महद्वनम् ।

उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ॥ २४ ॥

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।

ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ २५ ॥

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।

सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ॥ २६ ॥

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ।

तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ॥ २७ ॥

गृहीतचापौ तु नराधिपात्मजौ

विषक्ततूणौ समरेष्वकातरौ ।

यथोपदिष्टेन पथा महर्षिणा

प्रजग्मतुः पञ्चवटीं समाहितौ ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोदशः सर्गः ॥ १३ ॥

valmiki ramayan aranyakand adhyay 13