Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड सप्तचत्वारिंशः

॥ रावणाधिक्षेपः ॥

रावणेन तु वैदेही तदा पृष्ठा जिहीर्षता ।

परिव्राजकलिङ्गेन शशंसात्मानमङ्गना ॥ १ ॥

ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् ।

इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ २ ॥

दुहिता जनकस्याहं मैथिलस्य महात्मनः ।

सीता नाम्नाऽस्मि भद्रं ते रामभार्या द्विजोत्तम ॥ ३ ॥

उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने ।

भुञ्जानान्मानुषान्भोगान् सर्वकामसमृद्धिनी ॥ ४ ॥

ततस्त्रयोदशे वर्षे राजामन्त्रयत प्रभुः ।

अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ ५ ॥

तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने ।

कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥ ६ ॥

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।

मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ॥ ७ ॥

द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ।

नाद्य भोक्ष्ये न च स्वप्स्ये न च पास्ये कथञ्चन ॥ ८ ॥

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।

इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ॥ ९ ॥

अयाचतार्थैरन्वर्थैर्न च याञ्चां चकार सा ।

मम भर्ता महातेजा वयसा पञ्चविंशकः ॥ १० ॥

अष्टादश हि वर्षाणि मम जन्मनि गण्यते ।

रामेति प्रथितो लोके गुणवान् सत्यवाञ्शुचिः ॥ ११ ॥

विशालाक्षो महाबाहुः सर्वभूतहिते रतः ।

कामार्तस्तु महातेजाः पिता दशरथः स्वयम् ॥ १२ ॥

कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ।

अभिषेकाय तु पितुः समीपं राममागतम् ॥ १३ ॥

कैकेयी मम भर्तारमित्युवाच धृतं वचः ।

तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ॥ १४ ॥

भरताय प्रदातव्यमिदं राज्यमकण्टकम् ।

त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च ॥ १५ ॥

वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ।

तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः ॥ १६ ॥

चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ।

दद्यान्न प्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम् ॥ १७ ॥

एतद्ब्राह्मण रामस्य ध्रुवं व्रतमनुत्तमम् ।

तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥ १८ ॥

रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ।

स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ॥ १९ ॥

अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ।

जटी तापसरूपेण मया सह सहानुजः ॥ २० ॥

प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ।

ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः ॥ २१ ॥

विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ।

समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ॥ २२ ॥

आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ।

रुरून् गोधान् वराहांश्च हत्वाऽऽदायामिषान् बहून् ॥ २३ ॥

स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः ।

एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥ २४ ॥

एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः ।

प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ २५ ॥

येन वित्रासिता लोकाः सदेवासुरपन्नगाः ।

अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥ २६ ॥

त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।

रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ २७ ॥

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।

सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ २८ ॥

लङ्का नाम समुद्रस्य मध्ये मम महापुरी ।

सागरेण परिक्षिप्ता निविष्टा नगमूर्धनि ॥ २९ ॥

तत्र सीते मया सार्धं वनेषु विहरिष्यसि ।

न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ ३० ॥

पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः ।

सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥ ३१ ॥

रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।

प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ ३२ ॥

महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।

महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ ३३ ॥

सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् ।

सत्यसन्धं महाभागमहं राममनुव्रता ॥ ३४ ॥

महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ।

नृसिंहं सिंहसङ्काशमहं राममनुव्रता ॥ ३५ ॥

पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् ।

पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥ ३६ ॥

त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् ।

नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३७ ॥

पादपान् काञ्चनान्नूनं बहून् पश्यसि मन्दभाक् ।

राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ ३८ ॥

क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः ।

आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि ॥ ३९ ॥

मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ।

कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ॥ ४० ॥

अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम् ।

राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ ४१ ॥

अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।

सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ ४२ ॥

यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ।

अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ॥ ४३ ॥

कल्याणवृत्तां रामस्य यो भार्यां हर्तुमिच्छसि ।

अयोमुखानां शूलानामग्रे चरितुमिच्छसि ।

रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ ४४ ॥

यदन्तरं सिंहशृगालयोर्वने

यदन्तरं स्यन्दिनिकासमुद्रयोः ।

सुराग्र्यसौवीरकयोर्यदन्तरम्ं

तदन्तरं वै तव राघवस्य च ॥ ४५ ॥

यदन्तरं काञ्चनसीसलोहयो-

-र्यदन्तरं चन्दनवारिपङ्कयोः ।

यदन्तरं हस्तिबिडालयोर्वने

तदन्तरं दाशरथेस्तवैव च ॥ ४६ ॥

यदन्तरं वायसवैनतेययो-

-र्यदन्तरं मद्गुमयूरयोरपि ।

यदन्तरं सारसगृध्रयोर्वने

तदन्तरं दाशरथेस्तवैव च ॥ ४७ ॥

तस्मिन् सहस्राक्षसमप्रभावे

रामे स्थिते कार्मुकबाणपाणौ ।

हृतापि तेऽहं न जरां गमिष्ये

वज्रं यथा मक्षिकयाऽवगीर्णम् ॥ ४८ ॥

इतीव तद्वाक्यमदुष्टभावा

सुधृष्टमुक्त्वा रजनीचरं तम् ।

गात्रप्रकम्पव्यथिता बभूव

वातोद्धता सा कदलीव तन्वी ॥ ४९ ॥

तां वेपमानामुपलक्ष्य सीतां

स रावणो मृत्युसमप्रभावः ।

कुलं बलं नाम च कर्म च स्वं

समाचचक्षे भयकारणार्थम् ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥

valmiki ramayan aranyakand adhyay 47