Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड अष्टषष्टितमः

॥ जटायुः संस्कारः ॥

रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेणपातितम् ।

सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ १ ॥

ममायं नूनमर्थेषु यतमानो विहङ्गमः ।

राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान् ॥ २ ॥

अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते ।

तथाहि स्वरहीनोऽयं विक्लवः समुदीक्षते ॥ ३ ॥

जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः ।

सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ ४ ॥

किं निमित्तोऽहरत्सीतां रावणस्तस्य किं मया ।

अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ ५ ॥

कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् ।

सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम ॥ ६ ॥

कथं वीर्यः कथं रूपः किं कर्मा स च राक्षसः ।

क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ ७ ॥

तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ।

वाचाऽतिसन्नया रामं जटायुरिदमब्रवीत् ॥ ८ ॥

हृता सा राक्षसेन्द्रेण रावणेन विहायसा ।

मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ॥ ९ ॥

परिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः ।

सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम् ॥ १० ॥

उपरुध्यन्ति मे प्राणाः दृष्टिर्भ्रमति राघव ।

पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान् ॥ ११ ॥

येन यातो मुहूर्तेन सीतामादाय रावणः ।

विप्रनष्टं धनं क्षिप्रं तत्स्वामि प्रतिपद्यते ॥ १२ ॥

विन्दो नाम मुहूर्तोऽयं स च काकुत्स्थ नाबुधत् ।

त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः ॥ १३ ॥

झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ।

न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ॥ १४ ॥

वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ।

असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ॥ १५ ॥

आस्यात्सुस्राव रुधिरं म्रियमाणस्व सामिषम् ।

पुत्रो विश्रवसः साक्षात्भ्राता वैश्रवणस्य च ॥ १६ ॥

इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः ।

ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः ॥ १७ ॥

त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ।

स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ॥ १८ ॥

विक्षिप्य च शरीरं स्वं पपात धरणीतले ।

तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ॥ १९ ॥

रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ।

बहूनि रक्षसां वासे वर्षाणि वसता सुखम् ॥ २० ॥

अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ।

अनेकवार्षिको यस्तु चिरकालसमुत्थितः ॥ २१ ॥

सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ।

पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे ॥ २२ ॥

सीतामभ्यवपन्नो वै रावणेन बलीयसा ।

गृध्रराज्यं परित्यज्य पितृपैतामहं महत् ॥ २३ ॥

मम हेतोरयं प्राणान्मुमोच पतगेश्वरः ।

सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ॥ २४ ॥

शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ।

सीताहरणजं दुःखं न मे सौम्य तथागतम् ॥ २५ ॥

यथा विनाशो गृध्रस्य मत्कृते च परन्तप ।

राजा दशरथः श्रीमान्यथा मम महायशाः ॥ २६ ॥

पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ।

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ॥ २७ ॥

गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ।

नाथं पतगलोकस्य चितामारोप्य राघव ॥ २८ ॥

इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ।

या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ॥ २९ ॥

अपरावर्तिनां या च या च भूमिप्रदायिनाम् ।

मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ॥ ३० ॥

गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ।

एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ॥ ३१ ॥

ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ।

रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् ॥ ३२ ॥

स्थूलान्हत्वा महारोहीननु तस्तार तं द्विजम् ।

रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः ॥ ३३ ॥

शकुनाय ददौ रामो रम्ये हरितशाद्वले ।

यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ॥ ३४ ॥

तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ।

ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ॥ ३५ ॥

उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ।

शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ ।

स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ ३६ ॥

स गृध्रराजः कृतवान्यशस्करं

सुदुष्करं कर्म रणे निपातितः ।

महर्षिकल्पेन च संस्कृतस्तदा

जगाम पुण्यां गतिमात्मनः शुभाम् ॥ ३७ ॥

कृतोदकौ तावपि पक्षिसत्तमे

स्थिरां च बुद्धिं प्रणिधाय जग्मुतुः ।

प्रवेश्य सीताधिगमे ततो मनो

वनं सुरेन्द्राविव विष्णुवासवौ ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥ ६८ ॥

valmiki ramayan aranyakand adhyay 68