Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड एकोनविंशः

॥ खरक्रोधः ॥

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।

भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ॥ १ ॥

उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् ।

व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥ २ ॥

कः कृष्णसर्पमासीनमाशीविषमनागसम् ।

तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ॥ ३ ॥

कः कालपाशमासज्य कण्ठे मोहान्न बुध्यते ।

यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ ४ ॥

बलविक्रमसम्पन्ना कामगा कामरूपिणी ।

इमामवस्थां नीता त्वं केनान्तकसमा गता ॥ ५ ॥

देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।

कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ ६ ॥

न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ।

अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ७ ॥

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः ।

सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ ८ ॥

निहतस्य मया सङ्ख्ये शरसङ्कृत्तमर्मणः ।

सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥ ९ ॥

कस्य पत्ररथाः कायान्मांसमुत्कृत्य सङ्गताः ।

प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥ १० ॥

तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।

मयापकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ॥ ११ ॥

उपलभ्य शनैः सञ्ज्ञां तं मे शंसितुमर्हसि ।

येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥ १२ ॥

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।

ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥ १३ ॥

तरुणौ रूपसम्पन्नौ सुकूमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १४ ॥

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।

पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ १५ ॥

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।

देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १६ ॥

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।

दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ १७ ॥

ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् ।

इमामवस्थां नीताहं यथानाथासती तथा ॥ १८ ॥

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।

सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ १९ ॥

एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ।

तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥ २० ॥

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।

व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥ २१ ॥

मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ ।

प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ २२ ॥

तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ ।

इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ २३ ॥

मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः ।

शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥ २४ ॥

युष्माभिर्निर्हतौ दृष्ट्वा तावुभौ भ्रातरौ रणे ।

इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति ॥ २५ ॥

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।

तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥ २६ ॥

ततस्तु ते तं समुदग्रतेजसं

तथापि तीक्ष्णप्रदरा निशाचराः ।

न शेकुरेनं सहसा प्रमर्दितुं

वनद्विपा दीप्तमिवाग्निमुत्थितम् ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनविंशः सर्गः ॥ १९ ॥

valmiki ramayan aranyakand adhyay 19