Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड त्रिपञ्चाशः

॥ रावणभर्त्सनम् ॥

खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा ।

दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥ १ ॥

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।

रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ॥ २ ॥

न व्यपत्रपसे नीच कर्मणाऽनेन रावण ।

ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥ ३ ॥

त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ।

ममापवाहितो भर्ता मृगरूपेण मायया ॥ ४ ॥

यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ।

गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ ५ ॥

परमं खलु ते वीर्यं दृश्यते राक्षसाधम ।

विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥ ६ ॥

ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।

स्त्रियाश्च हरणं नीच रहिते तु परस्य च ॥ ७ ॥

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।

सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ ८ ॥

धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा ।

कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ ९ ॥

किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि ।

मुहूर्तमपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥ १० ॥

न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ।

ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ११ ॥

न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथञ्चन ।

वने प्रज्वलितस्येव स्पर्शमग्नेर्विहङ्गमः ॥ १२ ॥

साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण ।

मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ॥ १३ ॥

विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ।

येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ॥ १४ ॥

व्यवसायः स ते नीच भविष्यति निरर्थकः ।

न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ॥ १५ ॥

उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् ।

न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ॥ १६ ॥

मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ।

मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ॥ १७ ॥

पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ।

यथा चास्मिन् भयस्थाने न बिभेषि दशानन ॥ १८ ॥

व्यक्तं हिरण्मयान् हि त्वं सम्पश्यसि महीरुहान् ।

नदीं वैतरणीं घोरां रिधिरौघनिवासिनीम् ॥ १९ ॥

असिपत्रवनं चैव भीमं पश्यसि रावण ।

तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् ॥ २० ॥

द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ।

न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ॥ २१ ॥

धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः ।

बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ २२ ॥

क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ।

निमेषान्तरमात्रेण विना भ्रात्रा महावने ॥ २३ ॥

राक्षसा निहता येन सहस्राणि चतुर्दश ।

स कथं राघवो वीरः सर्वास्त्रकुशलो बली ॥ २४ ॥

न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ।

एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा ।

भयशोकसमाविष्टा करुणं विललाप ह ॥ २५ ॥

तथा भृशार्तां बहु चैव भाषिणीं

विलापपूर्वं करुणं च भामिनीम् ।

जहार पापः करुणं विवेष्टतीं

नृपात्मजामागतगात्रवेपथुम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥

valmiki ramayan aranyakand adhyay 53