Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड एकत्रिंशः

॥ रावणखरवृत्तोपलम्भः ॥

त्वरमणस्ततो गत्वा जनस्थानादकम्पनः ।

प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ १ ॥

जनस्थानस्थिता राजन् राक्षसा बहवो हताः ।

खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः ॥ २ ॥

एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।

अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥ ३ ॥

केन रम्यां जनस्थानं हतं मम परासुना ।

को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥ ४ ॥

न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् ।

प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥ ५ ॥

कालस्य चाप्यहं कालो दहेयमपि पावकम् ।

मृत्युं मरणधर्मेण सम्योजयितुमुत्सहे ॥ ६ ॥

दहेयमपि सङ्क्रुद्धस्तेजसाऽऽदित्यपावकौ ।

वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ ७ ॥

तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः ।

भयात् सन्दिग्धया वाचा रावणं याचतेऽभयम् ॥ ८ ॥

दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः ।

स विश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः ॥ ९ ॥

पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।

रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥ १० ॥

वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः ।

हतं तेन जनस्थानं खरश्च सहदूषणः ॥ ११ ॥

अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः ।

नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२ ॥

स सुरेन्द्रेण सम्युक्तो रामः सर्वामरैः सह ।

उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ १३ ॥

रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः ।

आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ १४ ॥

रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् ।

दिव्यास्त्रगुणसम्पन्नः पुरन्धरसमो युधि ॥ १५ ॥

तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः ।

कनीयान् लक्ष्मणो नाम भ्राता शशिनिभाननः ॥ १६ ॥

स तेन सह सम्युक्तः पावकेनानिलो यथा ।

श्रीमान्राजवरस्तेन जनस्थानं निपातितम् ॥ १७ ॥

नैव देवा महत्मानो नात्र कार्या विचारणा ।

शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ॥ १८ ॥

सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ।

येन येन च गच्छन्ति राक्षसा भयकर्शिताः ॥ १९ ॥

तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् ।

इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ २० ॥

अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।

जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥ २१ ॥

अथैवमुक्ते वचने प्रोवाचेदमकम्पनः ।

श्रुणु राजन्यथावृत्तं रामस्य बलपौरुषम् ॥ २२ ॥

असाध्यः कुपितो रामो विक्रमेण महायशाः ।

आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ॥ २३ ॥

सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् ।

असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ॥ २४ ॥

भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ।

वेगं वाऽपि समुद्रस्य वायुं वा विधमेच्छरैः ॥ २५ ॥

संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः ।

शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ २६ ॥

न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि ।

रक्षसां वाऽपि लोकेन स्वर्गः पापजनैरिव ॥ २७ ॥

न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि ।

अयं तस्य वधोपायस्तं ममैकमनाः शृणु ॥ २८ ॥

भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा ।

श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ २९ ॥

नैव देवी न गन्धर्वी नाऽप्सरा नाऽपि दानवी ।

तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥ ३० ॥

तस्यापहर भार्यां त्वं प्रमथ्य तु महावने ।

सीतया रहितः कामी रामो हास्यति जीवितम् ॥ ३१ ॥

अरोचयत तद्वाक्यं रावणो राक्षसाधिपः ।

चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥ ३२ ॥

बाढं काल्यं गमिष्यामि ह्येकः सारथिना सह ।

आनयिष्यामि च वैदेहीमिमां हृष्टो महापुरीम् ॥ ३३ ॥

अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः ।

रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ॥ ३४ ॥

स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् ।

सञ्चार्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ ३५ ॥

स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् ।

मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ ३६ ॥

तं स्वयं पूजयित्वा तु आसनेनोदकेन च ।

अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ ३७ ॥

कच्चित्सुकुशलं राजन् लोकानां राक्षसेश्वर ।

आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ॥ ३८ ॥

एवमुक्तो महातेजा मारीचेन स रावणः ।

ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ ३९ ॥

आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा ।

जनस्थानमवध्यं तत्सर्वं युधि निपातितम् ॥ ४० ॥

तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ।

राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ ४१ ॥

आख्याता केन सीता सा मित्ररूपेण शत्रुणा ।

त्वया राक्षसशार्दूल को न नन्दति निन्दितः ॥ ४२ ॥

सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ।

रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति ॥ ४३ ॥

प्रोत्साहयति कश्चित्वां स हि शत्रुरसंशयः ।

आशीविषमुखादंष्ट्रामुद्धर्तुं चेच्छति त्वया ॥ ४४ ॥

कर्मणा तेन केनाऽसि कापथं प्रतिपादितः ।

सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥ ४५ ॥

विशुद्धवंशाभिजनाग्रहस्त-

-स्तेजोमदः संस्थितदोर्विषाणः ।

उदीक्षितुं रावण नेह युक्तः

स सम्युगे राघवगन्धहस्ती ॥ ४६ ॥

असौ रणान्तः स्थितिसन्धिवालो

विदग्धरक्षोमृगहा नृसिंहः ।

सुप्तस्त्वया बोधयितुं न युक्तः

शराङ्गपुर्णो निशितासिदंष्ट्रः ॥ ४७ ॥

चापावहारे भुजवेगपङ्के

शरोर्मिमाले सुमहाहवौघे ।

न रामपातालमुखेऽतिघोरे

प्रस्कन्दितुं राक्षसराज युक्तम् ॥ ४८ ॥

प्रसीद लङ्केश्वर राक्षसेन्द्र

लङ्कां प्रसन्नो भव साधु गच्छ ।

त्वं स्वेषु दारेषु रमस्व नित्यम्

रामः सभार्यो रमतां वनेषु ॥ ४९ ॥

एवमुक्तो दशग्रीवो मारीचेन स रावणः ।

न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥

valmiki ramayan aranyakand adhyay 31