Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड षट्चत्वारिंशः

॥ रावणभिक्षुसत्कारः ॥

तथा परुषमुक्तस्तु कुपितो राघवानुजः ।

स विकाङ्क्षन्भृशं रामं प्रतस्थे न चिरादिव ॥ १ ॥

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।

अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ॥ २ ॥

श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही ।

वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ ३ ॥

परिव्राजकरूपेण वैदेहीं समुपागमत् ।

तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥ ४ ॥

रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ।

तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ॥ ५ ॥

रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः ।

तमुग्रतेजः कर्माणं जनस्थानरुहा द्रुमाः ॥ ६ ॥

समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ।

शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥ ७ ॥

स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ।

रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे ॥ ८ ॥

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ।

अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥ ९ ॥

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।

स पापो भव्यरूपेण तृणैः कूप इवावृतः ॥ १० ॥

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ।

[* तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीं रामस्य रावण । *]

शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ॥ ११ ॥

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ।

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ॥ १२ ॥

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।

स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ॥ १३ ॥

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।

तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ॥ १४ ॥

विभ्राजमानां वपुषा रावणः प्रशशंस ह ।

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ॥ १५ ॥

कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ।

ह्रीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने ॥ १६ ॥

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ।

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव ॥ १७ ॥

विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ।

विशालं जघनं पीनमूरू करिकरोपमौ ॥ १८ ॥

एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ ।

पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ ॥ १९ ॥

मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ।

चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥ २० ॥

मनो हरसि मे कान्ते नदीकूलमिवाम्भसा ।

करान्तमितमध्यासि सुकेशी संहतस्तनी ॥ २१ ॥

नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।

नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ २२ ॥

रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते ।

इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ॥ २३ ॥

सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ।

राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ २४ ॥

प्रासादाग्राणि रम्याणि नगरोपवनानि च ।

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ २५ ॥

वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने ।

भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ २६ ॥

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।

वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ २७ ॥

नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः ।

राक्षसानामयं वासः कथं नु त्वमिहागता ॥ २८ ॥

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥ २९ ॥

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ।

कथमेका महारण्ये न बिभेषि वरानने ॥ ३० ॥

कासि कस्य कुतश्चित्त्वं किं निमित्तं च दण्डकान् ।

एका चरसि कल्याणि घोरान्राक्षससेवितान् ॥ ३१ ॥

इति प्रशस्ता वैदेही रावणेन दुरात्मना ।

द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम् ॥ ३२ ॥

सर्वैरतिथिसत्कारैः पूजयामास मैथिली ।

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३३ ॥

द्विजातिवेषेण समीक्ष्य मैथिली

समागतं पात्रकुसुम्भधारिणम् ।

अशक्यमुद्द्वेष्टुमुपायदर्शनं

न्यमन्त्रयद्ब्राह्मणवत्तदाऽङ्गना ॥ ३४ ॥

इयं बृसी ब्राह्मण काममास्यतां

इदं च पाद्यं प्रतिगृह्यतामिति ।

इदं च सिद्धं वनजातमुत्तमं

त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३५ ॥

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं

नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।

प्रसह्य तस्या हरणे धृतं मनः

समर्पयस्त्वात्मवधाय रावणः ॥ ३६ ॥

ततः सुवेषं मृगयागतं पतिं

प्रतीक्षमाणा सहलक्ष्मणं तदा ।

विवीक्षमाणा हरितं ददर्श त-

-न्महद्वनं नैव तु रामलक्ष्मणौ ॥ ३७ ॥

इत्यार्षे श्रीमद्रामयणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥

valmiki ramayan aranyakand adhyay 46