Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड एकषष्टितमः

॥ सीतान्वेषणम् ॥

दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः ।

रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ १ ॥

अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः ।

उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ २ ॥

क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।

केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ ३ ॥

वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि ।

अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ ४ ॥

यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।

एते हीनास्त्वाया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ॥ ५ ॥

सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण ।

मृतं शोकेन महता सीताहरणजेन माम् ॥ ६ ॥

परलोके महाराजो नूनं द्रक्ष्यति मे पिता ।

कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥ ७ ॥

अपूरयित्वा तं कालं मत्सकाशमिहागतः ।

कामवृत्तमनार्यं मां मृषावादिनमेव च ॥ ८ ॥

धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ।

विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् ॥ ९ ॥

मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ।

क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे ॥ १० ॥

त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः ।

इतीव विलपन् रामः सीतादर्शनलालसः ॥ ११ ॥

न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ।

अनासादयमानं तं सीतां दशराथात्मजम् ॥ १२ ॥

पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।

लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ १३ ॥

मा विषादं महाबाहो कुरु यत्नं मया सह ।

इदं च हि वनं शूर बहुकन्दरशोभितम् ॥ १४ ॥

प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली ।

सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥ १५ ॥

सरितं वाऽपि सम्प्राप्ताः मीनवञ्जुलसेविताम् ।

स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ॥ १६ ॥

वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् ।

जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥ १७ ॥

तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहै ।

वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ॥ १८ ॥

मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ।

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ॥ १९ ॥

सह सौमित्रिणा रामो विचेतुमुपचक्रमे ।

तौ वनानि गिरींश्चैव सरितश्च सरांसि च ॥ २० ॥

निखिलेन विचिन्वानौ सीतां दशरथात्मजौ ।

तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ॥ २१ ॥

निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ।

विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ॥ २२ ॥

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ।

ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् ॥ २३ ॥

विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ।

प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ॥ २४ ॥

यथा विष्णुर्महाबाहुर्बलिं बध्वा महीमिमाम् ।

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः ॥ २५ ॥

उवाच दीनया वाचा दुःखाभिहतचेतनः ।

वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥ २६ ॥

गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ।

न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ २७ ॥

एवं स विलपन् रामः सीताहरणकर्शितः ।

दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥ २८ ॥

सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः ।

निषसादातुरो दीनो निःश्वस्यायतमायतम् ॥ २९ ॥

बहुलं स तु निःश्वस्य रामो राजीवलोचनः ।

हा प्रियेति विचुक्रोश बहुलो बाष्पगद्गदः ॥ ३० ॥

तं ततः सान्त्वयामास लक्ष्मणः प्रियबान्धवः ।

बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः ॥ ३१ ॥

अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम् ।

अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥

valmiki ramayan aranyakand adhyay 61