Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड चतुश्चत्वारिंशः

॥ मारीचवञ्चना ॥

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।

बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ १ ॥

ततस्त्र्यवनतं चापमादायात्मविभूषणम् ।

आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥ २ ॥

तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै ।

बभूवान्तर्हितस्त्रासात् पुनः सन्दर्शनेऽभवत् ॥ ३ ॥

बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ।

तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ॥ ४ ॥

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने ।

अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ॥ ५ ॥

शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ।

दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥ ६ ॥

चिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् ।

मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ॥ ७ ॥

दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् ।

सुदूरमाश्रमस्यास्य मारिचो मृगतां गतः ॥ ८ ॥

आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ।

अथावतस्थे सम्भ्रान्तश्छायामाश्रित्य शाद्वले ॥ ९ ॥

स तमुन्मादयामास मृगरूपो निशाचरः ।

मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ॥ १० ॥

ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत ।

तत्‍क्षणादेव सन्त्रासात् पुनरन्तर्हितोऽभवत् ॥ ११ ॥

पुनरेव ततो दूराद्वृक्षषण्डाद्विनिःसृतम् ।

दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ॥ १२ ॥

भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः ।

सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ॥ १३ ॥

सन्धाय सुदृढे चापे विकृष्य बलवद्बली ।

तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ॥ १४ ॥

मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ।

शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥ १५ ॥

मारीचस्यैव हृदयं विभेदाशनिसन्निभः ।

तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः ॥ १६ ॥

विनदन्भैरवं नादं धरण्यामल्पजीवितः ।

म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ॥ १७ ॥

स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् ।

इह प्रस्थापयेत् सीता शून्ये तां रावणो हरेत् ॥ १८ ॥

स प्राप्तकालमाज्ञाय चकार च ततः स्वरम् ।

सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥ १९ ॥

तेन मर्मणि निर्विद्धः शरेणानुपमेन च ।

मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ॥ २० ॥

चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ।

ततो विचित्रकेयूरः सर्वाभरणभूषितः ॥ २१ ॥

हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ।

तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ॥ २२ ॥

रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले ।

जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ २३ ॥

मारीचस्यैव मायैषा पूर्वोक्तं लक्ष्मणेन तु ।

तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥ २४ ॥

हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वनम् ।

ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् ॥ २५ ॥

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।

इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ २६ ॥

तत्र रामं भयं तीव्रमाविवेश विषादजम् ।

राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ॥ २७ ॥

निहत्य पृषतं चान्यं मांसमादाय राघवः ।

त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

valmiki ramayan aranyakand adhyay 44