Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड विंशः

॥ चतुर्दशरक्षोवधः ॥

ततः शूर्पणखा घोरा राघवाश्रममागता ।

रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ १ ॥

ते रामं पर्णशालायामुपविष्टं महाबलम् ।

ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ २ ॥

तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् ।

अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३ ॥

मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः ।

इमानस्या वधिष्यामि पदवीमागतानिह ॥ ४ ॥

वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः ।

तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ ५ ॥

राघवोऽपि महच्चापं चामीकरविभूषितम् ।

चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ६ ॥

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।

प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥ ७ ॥

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।

वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ ८ ॥

युष्मान्पापात्मकान् हन्तुं विप्रकारान् महाहवे ।

ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥ ९ ॥

तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ ।

यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥ १० ॥

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।

ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥ ११ ॥

संरक्तनयना घोरा रामं संरक्तलोचनम् ।

परुषं मधुराभाषं हृष्टा दृष्टपराक्रमम् ॥ १२ ॥

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।

त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥ १३ ॥

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।

अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ॥ १४ ॥

एहि बाहुप्रयुक्तैर्नः परिघैः शूलपट्‍टिशैः ।

प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ॥ १५ ॥

इत्येवमुक्त्वा सङ्क्रुद्धा राक्षसास्ते चतुर्दश ।

उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ॥ १६ ॥

चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ।

तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥ १७ ॥

तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ।

ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान् ॥ १८ ॥

जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ।

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ॥ १९ ॥

मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ।

रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ॥ २० ॥

ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ।

विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ २१ ॥

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।

निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥ २२ ॥

तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्छिता ।

परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ॥ २३ ॥

सा नदन्ती महानादं जवाच्छूर्पणखा पुनः ।

उपगम्य खरं सा तु किञ्चित्संशुष्कशोणिता ॥ २४ ॥

पपात पुनरेवार्ता सनिर्यासेव सल्लकी ।

भ्रातुः समीपे शोकार्ता ससर्ज निनदं महुः ।

सस्वरं मुमोचे बाष्पं विषण्णवदना तदा ॥ २५ ॥

निपातितान् दृष्य रणे तु राक्षसान्

प्रधाविता शूर्पणखा पुनस्ततः ।

वधं च तेषां निखिलेन रक्षसां

शशंस सर्वं भगिनी खरस्य सा ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे विंशः सर्गः ॥ २० ॥

valmiki ramayan aranyakand adhyay 20