Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड एकोनचत्वारिंशः

॥ साहाय्यकानभ्युपगमः ॥

एवमस्मि तदा मुक्तः कथञ्चित्तेन सम्युगे ।

इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम् ॥ १ ॥

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ।

सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ २ ॥

दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः ।

व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥ ३ ॥

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण ।

अत्यन्तघोरो व्यचरं तापसान् सम्प्रधर्षयन् ॥ ४ ॥

निहत्य दण्डकारण्ये तापसान् धर्मचरिणः ।

रुधिराणि पिबन्तस्तेषां तथा मांसानि भक्षयन् ॥ ५ ॥

ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् ।

तथा रुधिरमत्तोऽहं विचरन् धर्मदूषकः ॥ ६ ॥

आसादयं तदा रामं तापसं धर्मचारिणम् ।

वैदेहीं च महाभागां लक्ष्मणं च महरथम् ॥ ७ ॥

तापसं नियताहारं सर्वभूतहिते रतम् ।

सोऽहं वनगतं रामं परिभूय महाबलम् ॥ ८ ॥

तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ।

अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ॥ ९ ॥

जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ।

तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ॥ १० ॥

विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः ।

ते बाणा वज्रसङ्काशाः सुमुक्ता रक्तभोजनाः ॥ ११ ॥

आजग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः ।

पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा ॥ १२ ॥

समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ।

शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम् ॥ १३ ॥

इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ।

वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ॥ १४ ॥

गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ।

अपि रामसहस्राणि भीतः पश्यामि रावण ॥ १५ ॥

रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ।

राममेव हि पश्यामि रहिते राक्षसाधिप ॥ १६ ॥

दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ।

रकारादीनि नामानि रामत्रस्तस्य रावण ॥ १७ ॥

रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ।

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ॥ १८ ॥

बलिं वा नमुचिं वाऽपि हन्याद्धि रघुनन्दनः ।

रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस ॥ १९ ॥

न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ।

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ॥ २० ॥

परेषामपराधेन विनष्टाः सपरिच्छदाः ।

सोऽहं तवापराधेन विनाश्येयं निशाचर ॥ २१ ॥

कुरु यत्ते क्षमं तत्त्वमहं त्वां नानुयामि ह ।

रामश्च हि महातेजा महासत्त्वो महाबलः ॥ २२ ॥

अपि राक्षसलोकस्य न भवेदन्तको हि सः ।

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ॥ २३ ॥

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।

अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥ २४ ॥

इदं वचो बन्धुहितार्थिना मया

यथोच्यमानं यदि नाभिपत्स्यसे ।

सबान्धवस्त्यक्ष्यसि जीवितं रणे

हतोऽद्य रामेण शरैरजिह्मगैः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनचत्वारिंशस्सर्गः ॥ ३९ ॥

valmiki ramayan aranyakand adhyay 39