Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड द्वात्रिंशः

॥ शूर्पणखोद्यमः ॥

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।

हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ १ ॥

दूषणं च खरं चैव हतं त्रिशिरसा सह ।

दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ॥ २ ॥

सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् ।

जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥ ३ ॥

सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् ।

उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥ ४ ॥

आसीनं सूर्यसङ्काशे काञ्चने परमासने ।

रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥ ५ ॥

देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।

अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥ ६ ॥

देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।

ऐरावतविषाणाग्रैरुद्घृष्टकिणवक्षसम् ॥ ७ ॥

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।

विशालवक्षसं वीरं राजलक्षणशोभितम् ॥ ८ ॥

स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् ।

सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥ ९ ॥

विष्णुचक्रनिपातैश्च शतशो देवसम्युगे ।

अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥ १० ॥

आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा ।

अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ ११ ॥

क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् ।

उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ १२ ॥

सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ।

पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥ १३ ॥

तक्षकस्य प्रियां भार्यां पराजित्य जहार यः ।

कैलासपर्वतं गत्वा विजित्य नरवाहनम् ॥ १४ ॥

विमानं पुष्पकं तस्य कामगं वै जहार यः ।

वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥ १५ ॥

विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् ।

चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ ॥ १६ ॥

निवारयति बाहुभ्यां यः शैलशिखरोपमः ।

दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥ १७ ॥

पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः ।

देवदानवगधर्वपिशाचपतगोरगैः ॥ १८ ॥

अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते ।

मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ १९ ॥

हविर्धानेषु यः सोममुपहन्ति महाबलः ।

आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ॥ २० ॥

कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ।

रावणं सर्वभूतानां सर्वलोकभयावहम् ॥ २१ ॥

राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ।

तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ॥ २२ ॥

आसने सूपविष्टं च कालकालमिवोद्यतम् ।

राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ॥ २३ ॥

रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ।

अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ॥ २४ ॥

तमब्रवीद्दीप्तविशाललोचनं

प्रदर्शयित्वा भयमोहमूर्छिता ।

सुदारुणं वाक्यमभीतचारिणी

महात्मना शूर्पणखा विरूपिता ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥

valmiki ramayan aranyakand adhyay 32