Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड पञ्चमः

॥ शरभङ्गब्रह्मलोकप्रस्थानम् ॥

हत्वा तु तं भीमबलं विराधं राक्षसं वने ।

ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥ १ ॥

अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।

कष्टं वनमिदं दुर्गं न च स्म वनगोचराः ॥ २ ॥

अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ।

आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥ ३ ॥

तस्य देवप्रभावस्य तपसा भावितात्मनः ।

समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ ४ ॥

विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।

अवरुह्य रथोत्सङ्गात्सकाशे विबुधानुगम् ॥ ५ ॥

असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ।

सुप्रभाभरणं देवं विरजोम्बरधारिणम् ॥ ६ ॥

तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ।

हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥ ७ ॥

ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ।

पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम् ॥ ८ ॥

अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ।

चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ॥ ९ ॥

गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।

गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ॥ १० ॥

अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे ।

सह सम्भाषमाणे तु शरभङ्गेन वासवे ॥ ११ ॥

दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।

रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥ १२ ॥

अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण ।

प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥ १३ ॥

ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः ।

अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ १४ ॥

इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम् ।

शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥ १५ ॥

विस्तीर्णविपुलोरस्काः परिघायतबाहवः ।

शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः ॥ १६ ॥

उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः ।

रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ १७ ॥

एतद्धि किल देवानां वयो भवति नित्यदा ।

यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १८ ॥

इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ।

यावज्जानाम्यहं व्यक्तं क एष द्युतिमान्रथे ॥ १९ ॥

तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।

अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ २० ॥

ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।

शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥ २१ ॥

इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।

निष्ठां नयतु तावत्तु ततो मां द्रष्टुमर्हति ॥ २२ ॥

[* तावद्गच्छामहे शीघ्रं यावन्मां नाभिभाषते । *]

जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् ।

कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् ॥ २३ ॥

निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ।

इति वज्री तमामन्त्र्य मानयित्वा च तापसम् ॥ २४ ॥

रथेन हरियुक्तेन ययौ दिवमरिन्दमः ।

प्रयाते तु सहस्राक्षे राघवः सपरिच्छदम् ॥ २५ ॥

अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ।

तस्य पादौ च सङ्गृह्य रामः सीता च लक्ष्मणः ॥ २६ ॥

निषेदुः समनुज्ञाता लब्धवासा निमन्त्रिताः ।

ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः ॥ २७ ॥

शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ।

मामेष वरदो राम ब्रह्मलोकं निनीषति ॥ २८ ॥

जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ।

अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ॥ २९ ॥

ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ।

त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना ॥ ३० ॥

समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ।

अक्षया नरशार्दूल मया लोका जिताः शुभाः ॥ ३१ ॥

ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ।

एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ॥ ३२ ॥

ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ।

अहमेवाहरिष्यामि सर्वलोकान्महामुने ॥ ३३ ॥

आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ।

राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ॥ ३४ ॥

शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ।

इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः ॥ ३५ ॥

वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति ।

सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ॥ ३६ ॥

रमणीये वनोद्देशे स ते वासं विधास्यति ।

इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज ॥ ३७ ॥

नदीं पुष्पोडुपवहां तत्र तत्र गमिष्यसि ।

एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ॥ ३८ ॥

यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ।

ततोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित् ॥ ३९ ॥

शरभङ्गो महातेजाः प्रविवेश हुताशनम् ।

तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः ॥ ४० ॥

जीर्णां त्वचं तथास्थीनि यच्च मांसं सशोणितम् ।

रामस्तु विस्मितो भ्रात्रा भार्यया च सहात्मवान् ॥ ४१ ॥

स च पावकसङ्काशः कुमारः समपद्यत ।

उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥ ४२ ॥

स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।

देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ ४३ ॥

स पुण्यकर्मा भवने द्विजर्षभः

पितामहं सानुचरं ददर्श ह ।

पितामहश्चापि समीक्ष्य तं द्विजं

ननन्द सुस्वागतमित्युवाच ह ॥ ४४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥ ५ ॥

valmiki ramayan aranyakand adhyay 5