Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड तृतीयः

॥ विराधप्रहारः ॥

अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् ।

आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ॥ १ ॥

तमुवाच ततो रामो राक्षसं ज्वलिताननम् ।

पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ॥ २ ॥

क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ ।

त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ३ ॥

तमुवाच विराधस्तु रामं सत्यपराक्रमम् ।

हन्त वक्ष्यामि ते राजन्निबोध मम राघव ॥ ४ ॥

पुत्रः किल जयस्याहं मम माता शतह्रदा ।

विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥ ५ ॥

तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा ।

शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ ६ ॥

उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् ।

त्वरमाणौ पलायेथां न वां जीवितमाददे ॥ ७ ॥

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।

राक्षसं विकृताकारं विराधं पापचेतसम् ॥ ८ ॥

क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ।

रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि ॥ ९ ॥

ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान् ।

सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ॥ १० ॥

धनुषा ज्यागुणवता सप्त बाणान्मुमोच ह ।

रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् ॥ ११ ॥

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ।

निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥ १२ ॥

स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः ।

अभ्यद्रवत्सुसङ्क्रुद्धस्तदा रामं सलक्ष्मणम् ॥ १३ ॥

स विनद्य महानादं शूलं शक्रध्वजोपमम् ।

प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥ १४ ॥

अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः ।

विराधे राक्षसे तस्मिन्कालान्तकयमोपमे ॥ १५ ॥

स प्रहस्य महारौद्रः स्थित्वाऽजृम्भत राक्षसः ।

जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ १६ ॥

स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः । [बलात्तु]

विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ १७ ॥

तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम् ।

द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ॥ १८ ॥

तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि ।

पपाताशनिना छिन्नं मेरोरिव शिलातलम् ॥ १९ ॥

तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ ।

तूर्णमापततस्तस्य तदा प्राहरतां बलात् ॥ २० ॥

स वध्यमानः सुभृशं बाहुभ्यां परिरभ्य तौ ।

अप्रकम्प्यौ नरव्याघ्रौ रोद्रः प्रस्थातुमैच्छत ॥ २१ ॥

तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।

वहत्वयमलं तावत्पथाऽनेन तु राक्षसः ॥ २२ ॥

यथा चेच्छति सौमित्रे तथा वहतु राक्षसः ।

अयमेव हि नः पन्था येन याति निशाचरः ॥ २३ ॥

स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः ।

बालाविव स्कन्धगतौ चकारातिबलौ ततः ॥ २४ ॥

तावारोप्य ततः स्कन्धं राघवौ रजनीचरः ।

विराधो निनदन्घोरं जगामाभिमुखो वनम् ॥ २५ ॥

वनं महामेघनिभं प्रविष्टो

द्रुमैर्महद्भिर्विविधैरुपेतम् ।

नानाविधैः पक्षिशतैर्विचित्रं

शिवायुतं व्यालमृगैर्विकीर्णम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे तृतीयः सर्गः ॥ ३ ॥

valmiki ramayan aranyakand adhyay 3