Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड त्रयोविंशः

॥ उत्पातदर्शनम् ॥

तस्मिन् याते जनस्थानादशिवं शोणितोदकम् ।

अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ १ ॥

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ।

समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ २ ॥

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ।

अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ ३ ॥

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् ।

समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ ४ ॥

जनस्थानसमीपे तु समागम्य खरस्वनाः ।

विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥ ५ ॥

व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् ।

अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥ ६ ॥

प्रभिन्नगिरिसङ्काशास्तोयशोणितधारिणः ।

आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः ॥ ७ ॥

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।

दिशो वा विदिशो वाऽपि न च व्यक्तं चकाशिरे ॥ ८ ॥

क्षतजार्द्रसवर्णाभा सन्ध्या कालं विना बभौ ।

खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ॥ ९ ॥

कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ।

नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ॥ १० ॥

नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ।

कबन्धः परिघाभासो दृश्यते भास्करान्तिके ॥ ११ ॥

जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ।

प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः ॥ १२ ॥

उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ।

संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ॥ १३ ॥

तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ।

उद्धूतश्च विना वातं रेणुर्जलधरारुणः ॥ १४ ॥

वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः ।

उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः ॥ १५ ॥

प्रचचाल मही सर्वा सशैलवनकानना ।

खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ १६ ॥

प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत ।

सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ १७ ॥

ललाटे च रुजा जाता न च मोहान्न्यवर्तत ।

तान् समीक्ष्य महोत्पातानुत्थितान्रोमहर्षणान् ॥ १८ ॥

अब्रवीद्राक्षसान् सर्वान् प्रहसन् स खरस्तदा ।

महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् ॥ १९ ॥

न चिन्तयाम्यहं वीर्याद्बलवान् दुर्बलानिव ।

तारा अपि शरैस्तीक्ष्णैः पातयामि नभःस्थलात् ॥ २० ॥

मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम् ।

राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ॥ २१ ॥

अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ।

सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ॥ २२ ॥

यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः ।

न क्वचित्प्राप्तपूर्वो मे सम्युगेषु पराजयः ॥ २३ ॥

युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ।

देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ॥ २४ ॥

वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ।

सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ॥ २५ ॥

प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ।

समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ॥ २६ ॥

ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ।

समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः ॥ २७ ॥

स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः ।

जयतां राघवः सङ्ख्ये पौलस्त्यान् रजनीचरान् ॥ २८ ॥

चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् ।

एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥ २९ ॥

जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।

ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ ३० ॥

रथेन तु खरो वेगादुग्रसैन्यो विनिःसृतः ।

तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः ॥ ३१ ॥

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ।

दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ ३२ ॥

मेघमाली महामाली सर्पास्यो रुधिराशनः ।

द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ ३३ ॥

महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।

चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥ ३४ ॥

सा भीमवेगा समराभिकामा

महाबला राक्षसवीरसेना ।

तौ राजपुत्रौ सहसाऽभ्युपेता

माला ग्रहाणामिव चन्द्रसूर्यौ ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥

valmiki ramayan aranyakand adhyay 23