Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड पञ्चसप्ततितमः

॥ पम्पादर्शनम् ॥

दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा ।

लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ १ ॥

स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् ।

हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ २ ॥

दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् ।

विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ ३ ॥

सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण ।

उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ ४ ॥

प्रनष्टमशुभं तत्तत्कल्याणं समुपस्थितम् ।

तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ॥ ५ ॥

हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ।

तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥ ६ ॥

ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ।

यस्मिन् वसति धर्मात्मा सुग्रीवोऽम्शुमतः सुतः ॥ ७ ॥

नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः ।

अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ॥ ८ ॥

तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ।

एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ॥ ९ ॥

गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ।

आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः ॥ १० ॥

आजगाम ततः पम्पां लक्ष्मणेन सहप्रभुः ।

स ददर्श ततः पुण्यामुदारजनसेविताम् ॥ ११ ॥

नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम् ।

पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ॥ १२ ॥

नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव ।

स तामासाद्य वै रामौ दूरादुदकवाहिनीम् ॥ १३ ॥

मतङ्गसरसं नाम ह्रदं समवगाहत ।

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् ॥ १४ ॥

पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ।

तिलकैर्बीजपूरैश्च धवैः शुक्लद्रुमैस्तथा ॥ १५ ॥

पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः ।

मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा ॥ १६ ॥

अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ।

अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् ॥ १७ ॥

समीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम् ।

कोयष्टिकैश्चार्जुनकैः शतपत्त्रैश्च कीरकैः ॥ १८ ॥

एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् ।

ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ ॥ १९ ॥

तद्वनं चैव सरसः पश्यन्तौ शकुनैर्युतम् ।

स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम् ॥ २० ॥

प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् ।

स रामो विविधान् वृक्षान् सरांसि विविधानि च ॥ २१ ॥

पश्यन् कामाभिसन्तप्तो जगाम परमं ह्रदम् ।

पुष्पितोपवनोपेतां सालचम्पकशोभिताम् ॥ २२ ॥

षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ।

[* रम्यो पवनसम्बाधारम्य सम्पीडितोदकम् । *]

स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसम्युताम् ॥ २३ ॥

स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्धिकैर्युताम् ।

इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ॥ २४ ॥

अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ।

ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ॥ २५ ॥

हरेरृक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ।

अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ २६ ॥

सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ।

इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ २७ ॥

राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा ।

कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ॥ २८ ॥

इत्येवमुक्त्वा मदनाभिपिडितः

स लक्ष्मणं वाक्यमनन्यचेतसम् ।

विवेश पम्पां नलीनीं मनोहरां

रघूत्तमः शोकविषादयन्त्रितः ॥ २९ ॥

ततो महद्वर्त्म सुदूरसङ्क्रमः

क्रमेण गत्वा प्रतिकूलधन्वनम् ।

ददर्श पम्पां शुभदर्शकानना-

-मनेकनानाविधपक्षिजालकाम् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥

valmiki ramayan aranyakand adhyay 75