Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड अष्टपञ्चाशः

॥ अनिमित्तदर्शनम् ॥

स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ।

पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ १ ॥

प्रस्थितं दण्डकारण्यं या मामनुजगाम ह ।

क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ २ ॥

राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।

क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ ३ ॥

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ।

क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ ४ ॥

पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण ।

तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ॥ ५ ॥

कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ।

कच्चित्प्रवाजनं सौम्य न मे मिथ्या भविष्यति ॥ ६ ॥

सीतानिमित्तं सौमित्रे मृते मयि गते त्ययि ।

कच्चित्सकामा सुखिता कैकेयी सा भविष्यति ॥ ७ ॥

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ।

उपस्थास्यति कौसल्या कच्चित्सौम्य न केकयीम् ॥ ८ ॥

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।

सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ ९ ॥

यदि मामाश्रमगतं वैदेही नाभिभाषते ।

पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ १० ॥

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।

त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥ ११ ॥

सुकुमारी च बाला च नित्यं चादुःखदर्शिनी ।

मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ १२ ॥

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।

वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ १३ ॥

श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम ।

त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ १४ ॥

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।

प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥ १५ ॥

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।

तैः सीता निहता घोरैर्भविष्यति न संशयः ॥ १६ ॥

अहोऽस्मिन् व्यसने मग्नः सर्वथा शत्रुसूदन ।

किंन्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥ १७ ॥

इति सीतां वरारोहां चन्तयन्नेव राघवः ।

आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ १८ ॥

विगर्हमाणोऽनुजमार्तरूपं

क्षुधा श्रमाच्चैव पिपासया च ।

विनिःश्वसन् शुष्कमुखो विवर्णः

प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ १९ ॥

स्वमाश्रमं सम्प्रविगाह्य वीरो

विहारदेशाननुसृत्य कांश्चित् ।

एतत्तदित्येव निवासभूमौ

प्रहृष्टरोमा व्यथितो बभूव ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥

valmiki ramayan aranyakand adhyay 58