Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड त्रिसप्ततितमः

॥ ऋश्यमूकमार्गकथनम् ॥

निदर्शयित्वा रामाय सीतायाः प्रतिपादने ।

वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥ १ ॥

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।

प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ २ ॥

जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः ।

अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः ॥ ३ ॥

धन्वना नागवृक्षाश्च तिलका नक्तमालकाः ।

नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥ ४ ॥

अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ।

तानारूह्याथवा भूमौ पातयित्वा च तान् बलात् ॥ ५ ॥

फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ।

तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ॥ ६ ॥

नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव ।

सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः ॥ ७ ॥

सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ।

फलभारानतास्तत्र महाविटपधारिणः ॥ ८ ॥

शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः ।

तानारुह्याथ वा भूमौ पातयित्वा यथासुखम् ॥ ९ ॥

फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ।

चङ्क्रमन्तौ वरान् देशान् शैलाच्छैलं वनाद्वनम् ॥ १० ॥

ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ।

अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥ ११ ॥

राम सञ्जातवालूकां कमलोत्पलशालिनीम् ।

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ॥ १२ ॥

वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः ।

नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः ॥ १३ ॥

घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः ।

रोहितान् वक्रतुण्डांश्च नडमीनांश्च राघव ॥ १४ ॥

पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् ।

निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ॥ १५ ॥

तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ।

भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसञ्चये ॥ १६ ॥

पद्मगन्धि शिवं वारि सुखशीतमनामयम् ।

उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम् ॥ १७ ॥

असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ।

स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः ॥ १८ ॥

अपां लोभादुपावृत्तान् वृषभानिव नर्दतः ।

रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ॥ १९ ॥

सायाह्ने विचरन् राम विटपीन् माल्यधारिणः ।

शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि ॥ २० ॥

सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् ।

उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥ २१ ॥

न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ।

न च वै म्लानतां यान्ति न च शीर्यन्ति राघव ॥ २२ ॥

मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः ।

तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥ २३ ॥

ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः ।

तानि जातानि माल्यानि मुनीनां तपसा तदा ॥ २४ ॥

स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ।

तेषामद्यापि तत्रैव दृश्यते परिचारिणी ॥ २५ ॥

श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ।

त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ॥ २६ ॥

दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ।

ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् ॥ २७ ॥

आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ।

न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् ॥ २८ ॥

विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ।

ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम् ॥ २९ ॥

मतङ्गवनमित्येव विश्रुतं रघुनन्दन ।

तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने ॥ ३० ॥

नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः ।

ऋश्यमूकश्च पम्पायाः पुरस्तात् पुष्पितद्रुमः ॥ ३१ ॥

सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ।

उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥ ३२ ॥

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।

यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥ ३३ ॥

न त्वेनं विषमाचारः पापकर्माधिरोहति ।

यस्तु तं विषमाचारः पापकर्माधिरोहति ॥ ३४ ॥

तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ।

तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् ॥ ३५ ॥

क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ।

सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः ॥ ३६ ॥

प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ।

ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ॥ ३७ ॥

निर्वृताः संविगाहन्ते वनानि वनगोचराः ।

ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ॥ ३८ ॥

रुरूनपेतापजयान् दृष्ट्वा शोकं जहिष्यसि ।

राम तस्य तु शैलस्य महती शोभते गुहा ॥ ३९ ॥

शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ।

तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः ॥ ४० ॥

फलमूलान्वितो रम्यो नानामृगसमावृतः ।

तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः ॥ ४१ ॥

कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ।

कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ॥ ४२ ॥

स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ।

तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ ॥ ४३ ॥

प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके ।

गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च ।

सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ ४४ ॥

स तत्कबन्धः प्रतिपद्य रूपं

वृतः श्रिया भास्करतुल्यदेहः ।

निदर्शयन् राममवेक्ष्य खस्थः

सख्यं कुरुष्वेति तदाऽभ्युवाच ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥

valmiki ramayan aranyakand adhyay 73