Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड एकचत्वारिंशः

॥ रावणनिन्दा ॥

आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचरः ।

अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् ॥ १ ॥

केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।

सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥ २ ॥

कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत् ।

केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ॥ ३ ॥

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः ।

इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ ४ ॥

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ।

यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥ ५ ॥

वध्याः खलु न हन्यन्ते सचिवास्तव रावण ।

ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥ ६ ॥

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।

निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ ७ ॥

धर्ममर्थं च कामं च यशश्च जयतां वर ।

स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥ ८ ॥

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।

व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥ ९ ॥

राजमूलो हि धर्मश्च जयश्च जयतां वर ।

तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ १० ॥

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर ।

न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥ ११ ॥

ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै ।

विषमे तुरगाः शीघ्रा मन्दसारथयो यथा ॥ १२ ॥

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।

परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ १३ ॥

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ।

रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ १४ ॥

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।

येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ १५ ॥

तदिदं काकतालीयं घोरमासादितं मया ।

अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ १६ ॥

मां निहत्य तु रामश्च न चिरात्त्वां वधिष्यति ।

अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः ॥ १७ ॥

दर्शनादेव रामस्य हतं मामुपधारय ।

आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥ १८ ॥

आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया ।

नैव त्वमसि नैहं च नैव लङ्का न राक्षसाः ॥ १९ ॥

निवार्यमाणस्तु मया हितैषिणा

न मृष्यसे वाक्यमिदं निशाचर ।

परेतकल्पा हि गतायुषो नरा

हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

valmiki ramayan aranyakand adhyay 41