Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड पञ्चत्रिंशः

॥ मारीचाश्रमपुनर्गमनम् ॥

ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।

सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम सः ॥ १ ॥

तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।

दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥ २ ॥

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।

स्थिरबुद्धिस्ततो रम्यां यानशालामुपागमत् ॥ ३ ॥

यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः ।

सूतं सञ्चोदयामास रथः सम्योज्यतामिति ॥ ४ ॥

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः ।

रथं सम्योजयामास तस्याभिमतमुत्तमम् ॥ ५ ॥

काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।

पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ॥ ६ ॥

मेघप्रतिमनादेन स तेन धनदानुजः ।

राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥ ७ ॥

स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः ।

स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ॥ ८ ॥

विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः ।

त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ ९ ॥

कामगं रथमास्थाय शुशुभे राक्षसेश्वरः ।

विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ॥ १० ॥

सशैलं सागरानूपं वीर्यवानवलोकयन् ।

नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ ११ ॥

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ।

विशालैराश्रमपदैर्वेदिमद्भि समावृतम् ॥ १२ ॥

कदल्याऽऽढकिसम्बाधं नालिकेरोपशोभितम् ।

सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥ १३ ॥

नागैः सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः ।

आजैर्वैखानसैर्माषैः वालखिल्यैर्मरीचिपैः ॥ १४ ॥

अत्यन्तनियताहारैः शोभितं परमर्षिभिः ।

जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥ १५ ॥

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।

क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः ॥ १६ ॥

सेवितं देवपत्नीभिः श्रीमतीभिः श्रियावृतम् ।

देवदानवसङ्घैश्च चरितं त्वमृताशिभिः ॥ १७ ॥

हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रणादितम् ।

वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ १८ ॥

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च ।

तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ १९ ॥

तपसा जितलोकानां कामगान्यभिसम्पतन् ।

गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ २० ॥

निर्यासरसमूलानां चन्दनानां सहस्रशः ।

वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥ २१ ॥

अगुरूणां च मुख्यानां वनान्युपवनानि च ।

तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥ २२ ॥

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।

मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ २३ ॥

शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा ।

काञ्चनानि च शैलानि राजतानि च सर्वशः ॥ २४ ॥

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।

धनधान्योपपन्नानि स्त्रीरत्नैः शोभितानि च ॥ २५ ॥

हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।

तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ॥ २६ ॥

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ।

तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ २७ ॥

समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ।

यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥ २८ ॥

भक्षार्थं गरुडः शाखामाजगाम महाबलः ।

तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥ २९ ॥

सुपर्णः पर्णबहुलां बभञ्ज च महाबलः ।

तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥ ३० ॥

अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः ।

तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ॥ ३१ ॥

जगामादाय वेगेन तौ चोभौ गजकच्छपौ ।

एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ॥ ३२ ॥

निषादविषयं हत्वा शाखया पतगोत्तमः ।

प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ ३३ ॥

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।

अमृतानयनार्थं वै चकार मतिमान् मतिम् ॥ ३४ ॥

अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम् ।

महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ॥ ३५ ॥

तं महर्षिगणैर्जुष्टं सुपर्ण कृतलक्षणम् ।

नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३६ ॥

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।

ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ॥ ३७ ॥

तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।

ददर्श नियताहारं मारीचं नाम राक्षसम् ॥ ३८ ॥

स रावणः समागम्य विधिवत्तेन रक्षसा ।

मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ ३९ ॥

तं स्वयं पूजयित्वा तु भोजनेनोदकेन च ।

अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ ४० ॥

कच्चित् सुकुशलं राजन् लङ्कायां राक्षसेश्वर ।

केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ ४१ ॥

एवमुक्तो महातेजा मारीचेन स रावणः ।

तं तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥

valmiki ramayan aranyakand adhyay 35