Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड चतुस्त्रिंशः

॥ सीताहरणोपदेशः ॥

ततः शूर्पणखां कृद्धां ब्रुवन्तीं परुषं वचः ।

अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ॥ १ ॥

कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः ।

किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ॥ २ ॥

आयुधं किं च रामस्य निहता येन राक्षसाः ।

खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ॥ ३ ॥

इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ।

ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४ ॥

दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।

कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥ ५ ॥

शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ।

दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ॥ ६ ॥

नाददानं शरान् घोरान् न मुञ्चन्तं शिलीमुखान् ।

न कार्मुकं विकर्षन्तं रामं पश्यामि सम्युगे ॥ ७ ॥

हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ।

इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ॥ ८ ॥

रक्षसां भीमरूपाणां सहस्राणि चतुर्दश ।

निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ॥ ९ ॥

अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ १० ॥

एका कथञ्चिन्मुक्ताऽहं परिभूय महात्मना ।

स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ ११ ॥

भ्राता चास्य महातेजाः गुणतस्तुल्यविक्रमः ।

अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ १२ ॥

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।

रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ १३ ॥

रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना ।

धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ॥ १४ ॥

सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।

देवतेव वनस्यास्य राजते श्रीरिवापरा ॥ १५ ॥

तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा ।

सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ १६ ॥

नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।

नैवं रूपा मया नारी दृष्टपूर्वा महीतले ॥ १७ ॥

यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।

अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ॥ १८ ॥

सा सुशीला वपुः श्लाघ्या रूपेणाप्रतिमा भुवि ।

तवानुरूपा भार्या स्यात् त्वं च तस्यास्तथा पतिः ॥ १९ ॥

तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् ।

भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् ॥ २० ॥

विरूपिताऽस्मि क्रूरेण लक्ष्मणेन महाभुज ।

तां तु दृष्ट्वाऽद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ॥ २१ ॥

मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ।

यदि तस्यामभिप्रायो भार्यार्थे तव जायते ॥ २२ ॥

शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ।

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ॥ २३ ॥

वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ।

तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ॥ २४ ॥

हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ।

रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ॥ २५ ॥

क्रियतां निर्विशङ्केन वचनं मम रावण ।

विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ।

सीता सर्वानवद्याङ्गी भार्यर्थे राक्षसेश्वर ॥ २६ ॥

निशम्य रामेण शरैरजिह्मगै-

-र्हतान् जनस्थानगतान्निशाचरान् ।

खरं च बुध्वा निहतं च दूषणं

त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥

valmiki ramayan aranyakand adhyay 34