Skip to main content
पडताळणी प्रलंबित

अरण्यकाण्ड पञ्चपञ्चाशः

॥ सीताविलोभनोद्यमः ॥

सन्दिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् ।

आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यममन्यत ॥ १ ॥

स चिन्तयानो वैदेहीं कामबाणसमर्पितः ।

प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ २ ॥

स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः ।

अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ॥ ३ ॥

अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् ।

वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥ ४ ॥

मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् ।

अधोमुखमुखीं सीतामभ्येत्य च निशाचरः ॥ ५ ॥

तां तु शोकपरां दीनामवशां राक्षसाधिपः ।

स बलाद्दर्शयामास गृहं देवगृहोपमम् ॥ ६ ॥

हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् ।

नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥ ७ ॥

काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि ।

वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ॥ ८ ॥

दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् ।

सोपानं काञ्चनं चित्रमारुरोह तया सह ॥ ९ ॥

दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः ।

हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ॥ १० ॥

सुधामणिविचित्राणि भूमिभागानि सर्वशः ।

दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥ ११ ॥

दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः ।

रावणो दर्शयामास सीतां शोकपरायणाम् ॥ १२ ॥

दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् ।

उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥ १३ ॥

दश राक्षसकोट्यश्च द्वाविंशतिरथापराः ।

तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ॥ १४ ॥

वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान् ।

सहस्रमेकमेकस्य मम कार्यपुरःसरम् ॥ १५ ॥

यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् ।

जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ॥ १६ ॥

बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः ।

तासां त्वमीश्वरा सीते मम भार्या भव प्रिये ॥ १७ ॥

साधु किं तेऽन्यथा बुद्ध्या रोचयस्व वचो मम ।

भजस्व माऽभितप्तस्य प्रसादं कर्तुमर्हसि ॥ १८ ॥

परिक्षिप्ता सहस्रेण लङ्केयं शतयोजना ।

नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ १९ ॥

न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु ।

अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ २० ॥

राज्यभ्रष्टेन दीनेन तापसेन गतायुषा ।

किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥ २१ ॥

भजस्व सीते मामेव भर्ताहं सदृशस्तव ।

यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह ॥ २२ ॥

दर्शने मा कृथा बुद्धिं राघवस्य वरानने ।

काऽस्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ २३ ॥

न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः ।

दीप्यमानस्य चाप्यग्नेर्ग्रहीतुं विमलां शिखाम् ॥ २४ ॥

त्रयाणामपि लोकानां न तं पश्यामि शोभने ।

विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ २५ ॥

लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय ।

त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः ॥ २६ ॥

अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ।

दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ॥ २७ ॥

यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ।

इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिली ॥ २८ ॥

भूषणानि च मुख्यानि सेवस्व च मया सह ।

पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ॥ २९ ॥

विमानं सूर्यसङ्काशं तरसा निर्जितं मया ।

विशालं रमणीयं च तद्विमानमनुत्तमम् ॥ ३० ॥

तत्र सीते मया सार्धं विहरस्व यथासुखम् ।

वदनं पद्मसङ्काशं विमलं चारुदर्शनम् ॥ ३१ ॥

शोकार्तं तु वरारोहे न भ्राजति वरानने ।

एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना ॥ ३२ ॥

पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् ।

ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् ॥ ३३ ॥

उवाच वचनं पापो रावणो राक्षसेश्वरः ।

अलं व्रीडेन वैदेहि धर्मलोपकृतेन च ॥ ३४ ॥

आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति ।

एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥ ३५ ॥

प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ।

इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ।

न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत ह ॥ ३६ ॥

एवमुक्त्वा दशग्रीवो मैथीलीं जनकात्मजाम् ।

कृतान्तवशमापन्नो ममेयमिति मन्यते ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

valmiki ramayan aranyakand adhyay 55