Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड त्रयोदशः

॥ सप्तजनाश्रमप्रणामः ॥

ऋश्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।

जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ १ ॥

समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।

शरांश्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ॥ २ ॥

अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।

सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥ ३ ॥

पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः ।

तारश्चैव महातेजा हरियूथपयूथपः ॥ ४ ॥

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः ।

प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ॥ ५ ॥

कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा ।

शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ६ ॥

वैडूर्यविमलैः पर्णैः पद्मैश्चाकोशकुड्मलैः ।

शोभितान् सजलान् मार्गे तटाकांश्च व्यलोकयन् ॥ ७ ॥

कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः ।

चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ॥ ८ ॥

मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् ।

चरतः सर्वतोऽपश्यन् स्थलीषु हरिणान् स्थितान् ॥ ९ ॥

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ।

घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ॥ १० ॥

मत्तान् गिरितटोत्कृष्टान् जङ्गमानिव पर्वतान् ।

वारणान् वारिदप्रख्यान् महीरेणुसमुक्षितान् ॥ ११ ॥

वने वनचरांश्चान्यान् खेचरांश्च विहङ्गमान् ।

पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ १२ ॥

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।

द्रुमषण्ड वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ १३ ॥

एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ।

मेघसङ्घातविपुलः पर्यन्तकदलीवृतः ॥ १४ ॥

किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे ।

कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १५ ॥

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।

गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ॥ १६ ॥

एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ।

उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥ १७ ॥

अत्र सप्तजना नाम मुनयः संशितव्रताः ।

सप्तैवासन्नधः शीर्षा नियतं जलशायिनः ॥ १८ ॥

सप्तरात्रकृताहारा वायुना वनवासिनः ।

दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥ १९ ॥

तेषामेवम्प्रभावानां द्रुमप्राकारसंवृतम् ।

आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥ २० ॥

पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः ।

विशन्ति मोहाद्ये तत्र निवर्तन्ते न ते पुनः ॥ २१ ॥

विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः ।

तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ॥ २२ ॥

त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्यत्र प्रकाशते ।

वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ॥ २३ ॥

एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः ।

मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ २४ ॥

कुरु प्रणामं धर्मात्मंस्तान् समुद्दिश्य राघव ।

लक्ष्मणेन सह भ्रात्रा प्रयतः सम्यताञ्जलिः ॥ २५ ॥

प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् ।

न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते ॥ २६ ॥

ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ।

समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ २७ ॥

अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः ।

सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥ २८ ॥

ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् ।

ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ २९ ॥

ततस्तु रामानुजरामवानराः

प्रगृह्य शस्त्राण्युदितार्कतेजसः ।

पुरीं सुरेशात्मजवीर्यपालितां

वधाय शत्रोः पुनरागताः सह ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ १३ ॥

valmiki ramayan kishkindhakand adhyay 13