Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड सप्तमः

॥ रामसमाश्वासनम् ॥

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ।

अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥ १ ॥

न जाने निलयं तस्य सर्वथा पापरक्षसः ।

सामर्थ्यं विक्रमं वाऽपि दौष्कुलेयस्य वा कुलम् ॥ २ ॥

सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम ।

करिष्यामि तथा यत्नं यथा प्राप्यसि मैथिलीम् ॥ ३ ॥

रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ।

तथाऽस्मि कर्ता न चिराद्यथा प्रीतो भविष्यसि ॥ ४ ॥

अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर ।

त्वद्विधानामसदृशमीदृशं विद्धि लाघवम् ॥ ५ ॥

मयाऽपि व्यसनं प्राप्तं भार्याहरणजं महत् ।

न चाहमेवं शोचामि न च धैर्यं परित्यजे ॥ ६ ॥

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ।

महात्मा च विनीतश्च किं पुनर्धृतिमान् भवान् ॥ ७ ॥

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि ।

मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ ८ ॥

व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तके ।

विमृशन् वै स्वया बुद्ध्या धृतिमान्नावसीदति ॥ ९ ॥

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।

स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ १० ॥

एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये ।

पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ ११ ॥

ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ।

तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ १२ ॥

शोकेनाभिप्रपन्नस्य जीविते चापि संशयः ।

स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥ १३ ॥

हितं वयस्यभावेन ब्रूमि नोपदिशामि ते ।

वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १४ ॥

मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ।

मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ १५ ॥

प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः ।

सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ १६ ॥

कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च ।

अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ १७ ॥

एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे ।

दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः ॥ १८ ॥

किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ।

राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १९ ॥

मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ।

वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते मयि ॥ २० ॥

मया च यदिदं वाक्यमभिमानात्समीरितम् ।

तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ २१ ॥

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।

एतत्ते प्रतिजानामि सत्येनैव च ते शपे ॥ २२ ॥

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।

राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २३ ॥

एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ ।

उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम् ॥ २४ ॥

महानुभावस्य वचो निशम्य

हरिर्नराणामृषभस्य तस्य ।

कृतं स मेने हरिवीरमुख्य-

-स्तदा स्वकार्यं हृदयेन विद्वान् ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ॥ ७ ॥

valmiki ramayan kishkindhakand adhyay 7