Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड द्विषष्टितमः

॥ निशाकरभविष्याख्यानम् ॥

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् ।

अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ १ ॥

पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ।

प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ॥ २ ॥

पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् ।

दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ ३ ॥

राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः ।

तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ ४ ॥

अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।

तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ॥ ५ ॥

नैरृतो रावणो नाम तस्य भार्यां हरिष्यति ।

राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ॥ ६ ॥

सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ।

न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ॥ ७ ॥

परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः ।

यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ८ ॥

तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति ।

अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ ९ ॥

यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।

देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥ १० ॥

एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः ।

आख्येया राममहिषी त्वया तेभ्यो विहङ्गम ॥ ११ ॥

सर्वथा हि न गन्तव्यमीदृशः क्व गमिष्यसि ।

देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥ १२ ॥

नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।

इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ १३ ॥

त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ।

ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १४ ॥

इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ ।

नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ।

महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ॥ १५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥

valmiki ramayan kishkindhakand adhyay 62