Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड चतुःषष्टितमः

॥ समुद्रलङ्घनमन्त्रणम् ॥

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः ।

सङ्गम्य प्रीतिसम्युक्ता विनेदुः सिंहविक्रमाः ॥ १ ॥

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् ।

हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ २ ॥

अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ।

कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ ३ ॥

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ।

सन्निवेशं ततश्चक्रुः सहिता वानरोत्तमाः ॥ ४ ॥

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।

व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् ॥ ५ ॥

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः ।

क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ६ ॥

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः ।

रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ७ ॥

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।

विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥ ८ ॥

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।

आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥ ९ ॥

तान् विषादेन महता विषण्णान् वानरर्षभान् ।

उवाच मतिमान् काले वालिसूनुर्महाबलः ॥ १० ॥

न विषादे मनः कार्यं विषादो दोषवत्तमः ।

विषादो हन्ति पुरुषं बालं क्रुद्ध इवरोगः ॥ ११ ॥

विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते ।

तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ १२ ॥

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।

हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ १३ ॥

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ।

वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ १४ ॥

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।

अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १५ ॥

ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिन्दमः ।

अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदवब्रवीत् ॥ १६ ॥

क इदानीं महातेजा लङ्घयिष्यति सागरम् ।

कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥ १७ ॥

को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः ।

इमांश्च यूथपान् सर्वान् मोक्षयेत्को महाभयात् ॥ १८ ॥

कस्य प्रभावाद्दारांश्च पुत्रांश्चैव गृहाणि च ।

इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ १९ ॥

कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् ।

अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ २० ॥

यदि कश्चित्समर्थो वः सागरप्लवने हरिः ।

स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २१ ॥

अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत् ।

स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी ॥ २२ ॥

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः ।

सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ २३ ॥

व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।

न हि वो गमने सङ्गः कदाचित्कस्यचित्क्वचित् ।

ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥

valmiki ramayan kishkindhakand adhyay 64