Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड अष्टात्रिंशः

॥ रामसमीपगमनम् ॥

प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् ।

वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ १ ॥

विसर्जयित्वा स हरीन् शूरांस्तान् कृतकर्मणः ।

मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २ ॥

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।

अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ॥ ३ ॥

किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ।

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ ४ ॥

सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ।

एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ ५ ॥

तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ।

विसर्जयामास तदा तारामन्याश्च योषितः ॥ ६ ॥

एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् ।

तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ ७ ॥

बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ।

तानुवाच ततः प्राप्तान् राजाऽर्कसदृशप्रभः ॥ ८ ॥

उपस्थापयत क्षिप्रं शिबिकां मम वानराः ।

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ॥ ९ ॥

समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ।

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ॥ १० ॥

लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ।

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसन्निभम् ॥ ११ ॥

बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ।

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ १२ ॥

शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः ।

शङ्खभेरीनिनादैश्च वन्दिभिश्चाभिनन्दितः ॥ १३ ॥

निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ।

स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ॥ १४ ॥

परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।

स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ॥ १५ ॥

अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ।

आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ॥ १६ ॥

कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा ।

तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् ॥ १७ ॥

वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ।

पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥ १८ ॥

प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ।

परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ १९ ॥

तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ।

धर्ममर्थं च कामं च काले यस्तु निषेवते ॥ २० ॥

विभज्य सततं वीर स राजा हरिसत्तम ।

हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ॥ २१ ॥

स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।

अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः ॥ २२ ॥

त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ।

उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ॥ २३ ॥

सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ।

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ २४ ॥

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।

त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ॥ २५ ॥

तव देव प्रसादाच्च भ्रातुश्च जयतां वर ।

कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ २६ ॥

एते वानरमुख्याश्च शतशः शत्रुसूदन ।

प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ २७ ॥

ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव ।

कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ २८ ॥

देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ।

स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥ २९ ॥

शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः ।

अयुतैश्चावृता वीराः शङ्कुभिश्च परन्तप ॥ ३० ॥

अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ।

समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ॥ ३१ ॥

आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः ।

मेरुमन्दरसङ्काशा विन्ध्यमेरुकृतालयाः ॥ ३२ ॥

ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् ।

निहत्य रावणं सङ्ख्ये ह्यानयिष्यन्ति मैथिलीम् ॥ ३३ ॥

ततस्तमुद्योगमवेक्ष्य बुद्धिमान्

हरिप्रवीरस्य निदेशवर्तिनः ।

बभूव हर्षाद्वसुधाधिपात्मजः

प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥ ३८ ॥

valmiki ramayan kishkindhakand adhyay 38