Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड चतुश्चत्वारिंशः

॥ हनूमत्सन्देशः ॥

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् ।

स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ १ ॥

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् ।

सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ॥ २ ॥

न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये ।

नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ॥ ३ ॥

सासुराः सहगन्धर्वाः सनागनरदेवताः ।

विदिताः सर्वलोकास्ते ससागरधराधराः ॥ ४ ॥

गतिर्वेगश्च तेजश्च लाघवं च महाकपे ।

पितुस्ते सदृशं वीर मारुतस्य महात्मनः ॥ ५ ॥

तेजसा वापि ते भूतं समं भुवि न विद्यते ।

तद्यथा लभ्यते सीता तत्त्वमेवोपपादय ॥ ६ ॥

त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः ।

देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ७ ॥

ततः कार्यसमासङ्गमवगम्य हनूमति ।

विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥ ८ ॥

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः ।

निश्चितार्थकरश्चापि हनुमान् कार्यसाधने ॥ ९ ॥

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ।

भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ १० ॥

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ।

कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११ ॥

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।

अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः ॥ १२ ॥

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा ।

मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति ॥ १३ ॥

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ।

सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ॥ १४ ॥

स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ।

वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥ १५ ॥

स तत्प्रकर्षन् हरिणां बलं मह-

-द्बभूव वीरः पवनात्मजः कपिः ।

गताम्बुदे व्योम्नि विशुद्धमण्डलः

शशीव नक्षत्रगणोपशोभितः ॥ १६ ॥

अतिबल बलमाश्रितस्तवाहं

हरिवरविक्रम विक्रमैरनल्पैः ।

पवनसुत यथाऽभिगम्यते सा

जनकसुता हनुमंस्तथा कुरुष्व ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

valmiki ramayan kishkindhakand adhyay 44