Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड एकोनषष्टितमः

॥ सुपार्श्ववचनानुवादः ॥

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।

निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ॥ १ ॥

जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः ।

भूतलात्सहसोत्थाय गृध्रराजमथाभ्रवीत् ॥ २ ॥

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।

तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम् ॥ ३ ॥

को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।

स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥ ४ ॥

स हरीन् प्रीतिसम्युक्तान् सीताश्रुतिसमाहितान् ।

पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ॥ ५ ॥

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।

येन चापि ममाख्यातं यत्र वाऽऽयतलोचना ॥ ६ ॥

अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते ।

चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ ७ ॥

तं मामेवं गतं पुत्रः सुपार्श्वो नाम नामतः ।

आहारेण यथाकालं बिभर्ति पततां वरः ॥ ८ ॥

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ।

मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ ९ ॥

स कदाचित् क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः ।

गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ १० ॥

स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।

क्षुत्पिपासापरीतेन कुमारः पततां वरः ॥ ११ ॥

स मामाहारसंरोधात् पीडितः प्रीतिवर्धनः ।

अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ १२ ॥

अहं तात यथाकालमामिषार्थी खमाप्लुतः ।

महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ॥ १३ ॥

ततः सत्त्वसहस्राणां सागरान्तरचारिणाम् ।

पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः ॥ १४ ॥

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ।

स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः ॥ १५ ॥

सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः ।

तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ १६ ॥

न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् ।

नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥ १७ ॥

स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः ।

अथाहं खचरैर्भूतैरभिगम्य सभाजितः ॥ १८ ॥

दिष्ट्या जीवसि तातेति ह्यब्रुवन्मां महर्षयः ।

कथञ्चित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ॥ १९ ॥

एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ।

स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥ २० ॥

हरन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।

भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥ २१ ॥

रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ।

एष कालात्ययस्तावदिति कालविदां वरः ॥ २२ ॥

एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।

तच्छ्रुत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ २३ ॥

अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे ।

यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥ २४ ॥

श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।

वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ॥ २५ ॥

यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ।

ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ॥ २६ ॥

प्रेषिताः कपिराजेन देवैरपि दुरासदाः ।

रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ॥ २७ ॥

त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ।

कामं खलु दशग्रीवंस्तेजोबलसमन्वितः ॥ २८ ॥

भवतां तु समर्थानां न किञ्चिदपि दुष्करम् ।

तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ।

न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥

valmiki ramayan kishkindhakand adhyay 59