Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड एकषष्टितमः

॥ सूर्यानुगमनाख्यानम् ॥

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ।

आचचक्षे मुनेः सर्वं सूर्यानुगमनं तदा ॥ १ ॥

भगवन् व्रणयुक्तत्वाल्लज्जया व्यकुलोन्द्रियः ।

परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥ २ ॥

अहं चैव जटायुश्च सङ्घर्षाद्दर्पमोहितौ ।

आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ ३ ॥

कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् ।

रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ ४ ॥

अथावां युगपत्प्राप्तावपश्याव महीतले ।

रथचक्रप्रमाणानि नगराणि पृथक् पृथक् ॥ ५ ॥

क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः ।

गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ ६ ॥

तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ ।

आवामालोकयावस्तद्वनं शाद्वलसन्निभम् ॥ ७ ॥

उपलैरिव सञ्छन्ना दृश्यते भूः शिलोच्चयैः ।

आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ॥ ८ ॥

हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः ।

भूतले सम्प्रकाशन्ते नागा इव जलाशये ॥ ९ ॥

तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदावयोः ।

समाविशति मोहश्च तमो मूर्छा च दारुणा ॥ १० ॥

न दिग्विज्ञायते याम्या नाग्नेया न च वारुणी ।

युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ ११ ॥

मनश्च मे हतं भूयः सन्निवर्त्य तु संश्रयम् ।

यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि ॥ १२ ॥

यत्नेन महता भूयो रविः समवलोकितः ।

तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ १३ ॥

जटायुर्मामनापृच्छ्य निपपात महीं ततः ।

तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ १४ ॥

पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते ।

प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ॥ १५ ॥

आशङ्के तं निपतितं जनस्थाने जटायुषम् ।

अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ १६ ॥

राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ।

सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥

valmiki ramayan kishkindhakand adhyay 61