Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड सप्तदशः

॥ रामाधिक्षेपः ॥

ततः शरेणाभिहतो रामेण रणकर्कशः ।

पपात सहसा वाली निकृत्त इव पादपः ॥ १ ॥

स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ।

अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ॥ २ ॥

तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे ।

नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ॥ ३ ॥

भूमौ निपतितस्यापि तस्य देहं महात्मनः ।

न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ ४ ॥

शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता ।

दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥ ५ ॥

स तया मालया वीरो हैमया हरियूथपः ।

सन्ध्यानुरक्तपर्यन्तः पयोधर इवाभवत् ॥ ६ ॥

तस्य माला च देहश्च मर्मघाती च यः शरः ।

त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७ ॥

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।

रामबाणासनोत्क्षिप्तमावहत् परमां गतिम् ॥ ८ ॥

तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम् ।

बहुमान्य च तं वीरं वीक्षमाणं शनैरिव ॥ ९ ॥

ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ।

आदित्यमिव कालेन युगान्ते भुवि पातितम् ॥ १० ॥

महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् ।

महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ॥ ११ ॥

सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।

लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥ १२ ॥

तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ।

अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ॥ १३ ॥

त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः ।

कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ॥ १४ ॥

पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः ।

यदहं युद्धसंरब्धः शरेणोरसि ताडितः ॥ १५ ॥

[* अधिकश्लोकः –

कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ।

रामः करुणवेदी च प्रजानां च हिते रतः ॥

*]

सानुक्रोशो जितोत्साहः समयज्ञो दृढव्रतः ।

इति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ १६ ॥

दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः ।

पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥ १७ ॥

तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव ।

तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः ॥ १८ ॥

न मामन्येन संरब्धं प्रमत्तं योद्धुमर्हति ।

इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ १९ ॥

स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।

जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ २० ॥

सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।

नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ २१ ॥

विषये वा पुरे वा ते यदा नापकरोम्यहम् ।

न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥ २२ ॥

फलमूलाशनं नित्यं वानरं वनगोचरम् ।

मामिहाप्रतियुद्ध्यन्तमन्येन च समागतम् ॥ २३ ॥

लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम् ।

कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः ॥ २४ ॥

धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ।

राम राजकुले जातो धर्मवानिति विश्रुतः ॥ २५ ॥

अभव्यो भव्यरूपेण किमर्थं परिधावसि ।

साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ॥ २६ ॥

पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ।

वयं वनचरा राम मृगा मूलफलाशनाः ॥ २७ ॥

एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ।

भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च ॥ २८ ॥

अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ।

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ॥ २९ ॥

राजवृत्तिरसङ्कीर्णा न नृपाः कामवृत्तयः ।

त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ॥ ३० ॥

राजवृत्तैश्च सङ्कीर्णः शरासनपरायणः ।

न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता ॥ ३१ ॥

इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ।

हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ॥ ३२ ॥

किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ।

राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः ॥ ३३ ॥

नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ।

सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः ॥ ३४ ॥

लोकं पापात्मनामेते गच्छन्त्यत्र न संशयः ।

अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् ॥ ३५ ॥

अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ।

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव ॥ ३६ ॥

शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ।

चर्म चास्थि च मे राजन् न स्पृशन्ति मनीषिणः ॥ ३७ ॥

अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ।

तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् ॥ ३८ ॥

तदतिक्रम्य मोहेन कालस्य वशमागतः ।

त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा ॥ ३९ ॥

प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा ।

शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ॥ ४० ॥

कथं दशरथेन त्वं जातः पापो महात्मना ।

छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना ॥ ४१ ॥

त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ।

अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् ॥ ४२ ॥

वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ।

उदासीनेषु योऽस्मासु विक्रमस्ते प्रकाशितः ॥ ४३ ॥

अपकारिषु तं राजन् न हि पश्यामि विक्रमम् ।

दृश्यमानस्तु युध्येथा मया यदि नृपात्मज ॥ ४४ ॥

अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ।

त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः ॥ ४५ ॥

प्रसुप्तः पन्नगेनेव नरः पापवशं गतः ।

सुग्रीवप्रियकामेन यदहं निहतस्त्वया ॥ ४६ ॥

मामेव यदि पूर्वं त्वमेतदर्थमचोदयः ।

मैथिलीमहमेकाह्ना तव चानीतवान् भवेत् ॥ ४७ ॥

कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे ।

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् ॥ ४८ ॥

आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव ।

युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि ॥ ४९ ॥

अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे ।

काममेवंविधो लोकः कालेन विनियुज्यते ।

क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ ५० ॥

इत्येवमुक्त्वा परिशुष्कवक्रः

शराभिघाताद्व्यथितो महात्मा ।

समीक्ष्य रामं रविसन्निकाशं

तूष्णीं बभूवामरराजसूनुः ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ १७ ॥

valmiki ramayan kishkindhakand adhyay 17