Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड सप्तपञ्चाशः

॥ जटायुर्दिष्टकथनम् ॥

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।

अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १ ॥

कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे ।

जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ २ ॥

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।

नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ ३ ॥

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ।

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ ४ ॥

अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात् ।

तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ ५ ॥

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।

तस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥ ६ ॥

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ।

सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥ ७ ॥

इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ।

शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ॥ ८ ॥

श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ।

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ॥ ९ ॥

चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ।

सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ॥ १० ॥

कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ।

एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ॥ ११ ॥

अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा ।

बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ॥ १२ ॥

ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ ।

सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ॥ १३ ॥

लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम ।

राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ॥ १४ ॥

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५ ॥

पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ।

तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ १६ ॥

रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ।

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥ १७ ॥

रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।

परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १८ ॥

एवं गृध्रो हतस्तेन रावणेन बलीयसा ।

संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ १९ ॥

ततो मम पितृव्येण सुग्रीवेण महात्मना ।

चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ २० ॥

मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।

निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥ २१ ॥

स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ।

राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ २२ ॥

एवं रामप्रयुक्तस्तु मार्गमाणास्ततस्ततः ।

वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥ २३ ॥

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ।

अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ॥ २४ ॥

मयस्य मायाविहितं तद्बिलं च विचिन्वताम् ।

व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ २५ ॥

ते वयं कपिराजस्य सर्वे वचनकारिणः ।

कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ २६ ॥

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।

गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

valmiki ramayan kishkindhakand adhyay 57