Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड सप्तषष्टितमः

॥ लङ्घनावप्रम्भः ॥

तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ।

वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ १ ॥

सहसा शोकमुत्सृज्य प्रहेर्षेण समन्विताः ।

विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ॥ २ ॥

प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः ।

त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ ३ ॥

संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।

समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् ॥ ४ ॥

तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः ।

तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ ५ ॥

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।

मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते ॥ ६ ॥

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।

अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ ७ ॥

हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः ।

अभिवाद्य हरीन्वृद्धान् हनुमानिदमब्रवीत् ॥ ८ ॥

अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः ।

बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ९ ॥

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।

मारुतस्यौरसः पुत्रः प्लवने नास्ति मत्समः ॥ १० ॥

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।

मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ ११ ॥

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।

समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ १२ ॥

ममोरुजङ्घवेगेन भविष्यति समुत्थितः ।

समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः ॥ १३ ॥

पन्नगाशनमाकाशे पतन्तं पक्षिसेविते ।

वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ १४ ॥

उदयात्प्रस्थितं वाऽपि ज्वलन्तं रश्मिमालिनम् ।

अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ १५ ॥

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ।

प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ १६ ॥

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।

सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ १७ ॥

पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः ।

हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ १८ ॥

लतानां विविधं पुष्पं पादपानां च सर्वशः ।

अनुयास्यन्ति मामद्य प्लवमानं विहायसा ॥ १९ ॥

भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ।

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा ॥ २० ॥

द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः ।

महामेघप्रतीकाशं मां च द्रक्ष्यथ वानराः ॥ २१ ॥

दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ।

विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् ॥ २२ ॥

सागरं क्षोभयिष्यामि प्लवमानः समाहितः ।

वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ॥ २३ ॥

ऋते सुपर्णराजानं मारुतं वा महाजवम् ।

न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ २४ ॥

निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।

सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ २५ ॥

भविष्यति हि मे रूपं प्लवमानस्य सागरे ।

विष्णोर्विक्रममाणस्य पुरा त्रीन् विक्रमानिव ॥ २६ ॥

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।

अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥ २७ ॥

मारुतस्य समो वेगे गरुडस्य समो जवे ।

अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ २८ ॥

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।

विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ २९ ॥

तेजश्चन्द्रान्निगृह्णीयां सूर्याद्वा तेज उत्तमम् ।

लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ॥ ३० ॥

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् ।

प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ॥ ३१ ॥

तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ।

उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम् ॥ ३२ ॥

वीर केसरिणः पुत्र हनुमान् मारुतात्मज ।

ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः ॥ ३३ ॥

तव कल्याणरुचयः कपिमुख्याः समागताः ।

मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ॥ ३४ ॥

ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।

गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ ३५ ॥

स्थास्यामश्चैकपादेन यावदागमनं तव ।

त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ॥ ३६ ॥

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ।

नेयं मम मही वेगं लङ्घने धारयिष्यति ॥ ३७ ॥

एतानीह नगस्यास्य शिलासङ्कटशालिनः ।

शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥ ३८ ॥

एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् ।

नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु ॥ ३९ ॥

एतानि मम निष्पेषं पादयोः प्लवतां वराः ।

प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ ४० ॥

ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः ।

आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ४१ ॥

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।

लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ॥ ४२ ॥

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ।

मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ॥ ४३ ॥

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ।

विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥ ४४ ॥

पादाभ्यां पीडितस्तेन महाशैलो महात्मनः ।

ररास सिंहाभिहतो महान्मत्त इव द्विपः ॥ ४५ ॥

मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ।

वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ॥ ४६ ॥

नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ।

उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि ॥ ४७ ॥

त्यज्यमानमहासानुः सन्निलीनमहोरगः ।

चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः ॥ ४८ ॥

निःश्वसद्भिस्तदार्तैस्तु भजङ्गैरर्धनिःसृतैः ।

सपताक इवाभाति स तदा धरणीधरः ॥ ४९ ॥

ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः ।

सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ ५० ॥

स वेगवान् वेगसमाहितात्मा

हरिप्रवीरः परवीरहन्ता ।

मनः समाधाय महानुभावो

जगाम लङ्कां मनसा मनस्वी ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥

valmiki ramayan kishkindhakand adhyay 67