Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड षड्विंशः

॥ सुग्रीवाभिषेकः ॥

ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम् ।

शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ १ ॥

अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।

स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ २ ॥

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ।

अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ ३ ॥

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।

वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ ४ ॥

भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।

संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः ॥ ५ ॥

स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ।

अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥ ६ ॥

इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि ।

कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षयन् ॥ ७ ॥

एवमुक्तो हनुमता राघवः परवीरहा ।

प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ ८ ॥

चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम् ।

न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ॥ ९ ॥

सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः ।

प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥ १० ॥

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ।

वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् ॥ ११ ॥

इममप्यङ्गदं वीर यौवराज्येऽभिषेचय ।

ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण ते ॥ १२ ॥

अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ।

पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः ॥ १३ ॥

प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसञ्ज्ञिकाः ।

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ॥ १४ ॥

अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ।

इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥ १५ ॥

प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ।

कार्तिके समनुप्राप्ते त्वं रावणवधे यत ॥ १६ ॥

एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ।

अभिषिक्तः स्वराज्ये च सुहृदः सम्प्रहर्षय ॥ १७ ॥

इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः ।

प्रविवेश पुरीं रम्यां किष्कन्धां वालिपालिताम् ॥ १८ ॥

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ।

अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ॥ १९ ॥

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ।

प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ २० ॥

सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् ।

भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ॥ २१ ॥

प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् ।

अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ २२ ॥

तस्य पाण्डुरमाजह्नुश्छत्रं हेमपरिष्कृतम् ।

शुक्ले च वालव्यजने हेमदण्डे यशस्करे ॥ २३ ॥

तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि ।

सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ॥ २४ ॥

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ।

सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥ २५ ॥

चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् ।

अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ॥ २६ ॥

दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ।

समालम्भनमादाय रोचनां समनः शिलाम् ॥ २७ ॥

आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ।

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ॥ २८ ॥

रत्नैर्वस्त्रैश्च भक्षैश्च तोषयित्वा द्विजर्षभान् ।

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् ॥ २९ ॥

मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ।

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ॥ ३० ॥

प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ।

प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ॥ ३१ ॥

नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ।

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ॥ ३२ ॥

अपः कनककुम्भेषु निधाय विमलाः शुभाः ।

शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ॥ ३३ ॥

शास्त्रदृष्टेन विधिना महर्षिविहितेन च ।

गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ ३४ ॥

मैन्दश्च द्विविदश्चैव हनुमान् जाम्बवान्नलः ।

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ॥ ३५ ॥

सलिलेन सहस्राक्षं वसवो वासवं यथा ।

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः ॥ ३६ ॥

प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ।

रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः ॥ ३७ ॥

अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत् ।

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ॥ ३८ ॥

साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ।

रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ॥ ३९ ॥

प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिति ।

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।

बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ ४० ॥

निवेद्य रामाय तदा महात्मने

महाभिषेकं कपिवाहिनीपतिः ।

रुमां च भार्यां प्रतिलभ्य वीर्यवा-

-नवाप राज्यं त्रिदशाधिपो यथा ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षड्विंशः सर्गः ॥ २६ ॥

valmiki ramayan kishkindhakand adhyay 26