Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड पञ्चदशः

॥ ताराहितोक्तिः ॥

अथ तस्य निनादं तु सुग्रीवस्य महात्मनः ।

शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ १ ॥

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।

मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥ २ ॥

स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः ।

उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ३ ॥

वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः ।

भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥ ४ ॥

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।

वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५ ॥

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा ।

उवाच त्रस्तासम्भ्रान्ता हितोदर्कमिदं वचः ॥ ६ ॥

साधु क्रोधमिमं वीर नदीवेगमिवागतम् ।

शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ७ ॥

काल्यमेतेन सङ्ग्रामं करिष्यसि हरीश्वर ।

वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥ ८ ॥

सहसा तव निष्क्रामो मम तावन्न रोचते ।

श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ॥ ९ ॥

पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि ।

निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ १० ॥

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।

इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ ११ ॥

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ।

निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥ १२ ॥

नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।

अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ १३ ॥

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ।

अपरीक्षितवीर्येण सुग्रीवः सह नेष्यति ॥ १४ ॥

पूर्वमेव मया वीर श्रुतं कथयतो वचः ।

अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ १५ ॥

अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः ।

प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता ॥ १६ ॥

अयोध्याधिपतेः पुत्रो शूरो समरदुर्जयौ ।

इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥ १७ ॥

सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ।

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः ॥ १८ ॥

रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ।

निवासवृक्षः साधूनामापन्नानां परा गतिः ॥ १९ ॥

आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ।

ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः ॥ २० ॥

धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ।

तत्क्षमं न विरोधस्ते सह तेन महात्मना ॥ २१ ॥

दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ।

शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम् ॥ २२ ॥

श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ।

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ॥ २३ ॥

विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा । [बलीयसा]

अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ॥ २४ ॥

सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः ।

लालनीयो हि ते भ्राता यवीयानेष वानरः ॥ २५ ॥

तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ।

न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन ॥ २६ ॥

दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ।

वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु ॥ २७ ॥

सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ।

भ्रातुः सौहृदमालम्ब नान्या गितिरिहास्ति ते ॥ २८ ॥

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ।

याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ २९ ॥

प्रसीद पथ्यं शृणु जल्पितं हि मे

न रोषमेवानुविधातुमर्हसि ।

क्षमो हि ते कोसलराजसूनुना

न विग्रहः शक्रसमानतेजसा ॥ ३० ॥

तदा हि तारा हितमेव वाक्यं

तं वालिनं पथ्यमिदं बभाषे ।

न रोचते तद्वचनं हि तस्य

कालाभिपन्नस्य विनाशकाले ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ १५ ॥

valmiki ramayan kishkindhakand adhyay 15