Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड विंशः

॥ ताराविलापः ॥

रामचापविसृष्टेन शरेणान्तकरेण तम् ।

दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥ १ ॥

सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।

इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥ २ ॥

वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा ।

तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ ३ ॥

रणे दारुण विक्रान्त प्रवीर प्लवतां वर ।

किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ ४ ॥

उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ।

नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ५ ॥

अतीव खलु ते कान्ता वसुधा वसुधाधिप ।

गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ ६ ॥

व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तिता ।

किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ ७ ॥

यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु ।

विहृतानि त्वया काले तेषामुपरमः कृतः ॥ ८ ॥

निरानन्दा निराशाहं निमग्ना शोकसागरे ।

त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ९ ॥

हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् ।

यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा ॥ १० ॥

सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।

यत्तु तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ ११ ॥

निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता ।

यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ १२ ॥

रूपयौवनदृप्तानां दक्षिणानां च मानद ।

नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ १३ ॥

कालो निःसंशयो नूनं जीवितान्तकरस्तव ।

बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ १४ ॥

वैधव्यं शोकसन्तापं कृपणं कृपणा सती ।

अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ १५ ॥

लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः ।

वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते ॥ १६ ॥

कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ।

दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ १७ ॥

समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च ।

मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ १८ ॥

रामेण हि महत्कर्मकृतं त्वामभिनिघ्नता ।

आनृण्यं च गतं तस्य सुग्रवस्य प्रतिश्रवे ॥ १९ ॥

सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे ।

भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥ २० ॥

किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे ।

इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ २१ ॥

तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः ।

परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः ॥ २२ ॥

किमङ्गदं साङ्गदवीरबाहो

विहाय यास्यद्य चिरप्रवासम् ।

न युक्तमेवं गुणसन्निकृष्टं

विहाय पुत्रं प्रियपुत्र गन्तुम् ॥ २३ ॥

किमप्रियिं ते प्रियचारुवेष

मया कृतं नाथ सुतेन वा ते ।

सहाङ्गदां मां स विहाय वीर

यत्प्रस्थितो दीर्घमितः प्रवासम् ॥ २४ ॥

यद्यप्रियं किञ्चिदसम्प्रधार्य

कृतं मया स्यात्तव दीर्घबाहो ।

क्षमस्व मे तद्धरिवंशनाथ

व्रजामि मूर्ध्ना तव वीर पादौ ॥ २५ ॥

तथा तु तारा करुणं रुदन्ती

भर्तुः समीपे सह वानरीभिः ।

व्यवस्यत प्रायमुपोपवेष्टु-

-मनिन्द्यवर्णा भुवि यत्र वाली ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे विंशः सर्गः ॥ २० ॥

valmiki ramayan kishkindhakand adhyay 20