Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड द्वाविंशः

॥ वाल्यनुशासनम् ॥

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् ।

आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥ १ ॥

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः ।

आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ २ ॥

सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् ।

कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३ ॥

युगपद्विहितं तात न मन्ये सुखमावयोः ।

सौहार्दं भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ ४ ॥

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।

मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ५ ॥

जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ।

प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ॥ ६ ॥

अस्यां त्वहमवस्थानां वीर वक्ष्यामि यद्वचः ।

यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ॥ ७ ॥

सुखार्हं सुखसंवृद्धिं बालमेनमबालिशम् ।

बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ॥ ८ ॥

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् ।

मया हीनमहीनार्थं सर्वतः परिपालय ॥ ९ ॥

त्वमेवास्य हि दाता च परित्राता च सर्वतः ।

भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर ॥ १० ॥

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः ।

रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥ ११ ॥

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।

करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः ॥ १२ ॥

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये ।

औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १३ ॥

यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम् ।

न हि तारामतं किञ्चिदन्यथा परिवर्तते ॥ १४ ॥

राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ।

स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ १५ ॥

इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ।

उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि ॥ १६ ॥

इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ।

हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥ १७ ॥

तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ।

जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ १८ ॥

तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम् ।

संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥ १९ ॥

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।

सुखदुःखसहः काले सुग्रीववशगो भव ॥ २० ॥

यथा हि त्वं महाबाहो लालितः सततं मया ।

न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥ २१ ॥

मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम ।

भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ २२ ॥

न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ।

उभयं हि महान् दोषस्तस्मादन्तरदृग्भव ॥ २३ ॥

इत्युक्त्वाऽथ विवृत्ताक्षः शरसम्पीडितो भृशम् ।

विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥ २४ ॥

ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः ।

परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः ॥ २५ ॥

किष्किन्धा ह्यद्य शून्यासीत्स्वर्गते वानराधिपे ।

उद्यानानि च शून्यानि पर्वताः काननानि च ॥ २६ ॥

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः ।

येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः ॥ २७ ॥

गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च ।

नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति ॥ २८ ॥

ततस्तु षोडशे वर्षे गोलभो विनिपातितः ।

हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान् ।

सर्वाभयकरोऽस्माकं कथमेष निपातितः ॥ २९ ॥

हते तु वीरे प्लवगाधिपे तदा

प्लवङ्गमास्तत्र न शर्म लेभिरे ।

वनेचराः सिंहयुते महावने

यथा हि गावो निहते गवां पतौ ॥ ३० ॥

ततस्तु तारा व्यसनार्णवाप्लुता

मृतस्य भर्तुर्वदनं समीक्ष्य सा ।

जगाम भूमिं परिरभ्य वालिनं

महाद्रुमं छिन्नमिवाश्रिता लता ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥ २२ ॥

valmiki ramayan kishkindhakand adhyay 22