Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड पञ्चत्रिंशः

॥ तारासमाधानम् ॥

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।

अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ १ ॥

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।

हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ॥ २ ॥

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।

नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ ३ ॥

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।

रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ ४ ॥

रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ।

प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥ ५ ॥

सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।

प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ ६ ॥

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण ।

अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ ७ ॥

स हि प्राप्तं न जानीते कालं कालविदां वरः ।

विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ ८ ॥

देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ।

अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥ ९ ॥

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।

निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ १० ॥

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।

अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ११ ॥

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।

महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ १२ ॥

रुमां मां कपिराज्यं च धनधान्यवसूनि च ।

रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ १३ ॥

समानेष्यति सुग्रीवः सीतया सह राघवम् ।

शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥ १४ ॥

शतकोटिसहस्राणि लङ्कायां किल राक्षसाः ।

अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ १५ ॥

अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः ।

न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६ ॥

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।

रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ १७ ॥

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः ।

आगमस्तु न मे व्यक्तः श्रवणात्तद्ब्रवीम्यहम् ॥ १८ ॥

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः ।

आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् ॥ १९ ॥

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् ।

राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ २० ॥

कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा ।

अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥ २१ ॥

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।

अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम ।

कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ २२ ॥

तव हि मुखमिदं निरीक्ष्य कोपात्

क्षतजनिभे नयने निरीक्षमाणाः ।

हरिवरवनिता न यान्ति शान्तिं

प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥

valmiki ramayan kishkindhakand adhyay 35