Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड त्रिंशः

॥ शरद्वर्णनम् ॥

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।

वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १ ॥

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।

शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २ ॥

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।

बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥ ३ ॥

स तु सञ्ज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः ।

मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४ ॥

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ।

शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ॥ ५ ॥

दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् ।

सारसारवसङ्घुष्टं विललापार्तया गिरा ॥ ६ ॥

सारसारवसन्नादैः सारसारवनादिनी ।

याऽऽश्रमे रमते बाला साऽद्य ते रमते कथम् ॥ ७ ॥

पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् ।

कथं सा रमते बाला पश्यन्ती मामपश्यती ॥ ८ ॥

या पुरा कलहंसानां स्वरेण कलभाषिणी ।

बुध्यते चारुसर्वाङ्गी साऽद्य मे बुध्यते कथम् ॥ ९ ॥

निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ।

पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ १० ॥

सरांसि सरितो वापीः काननानि वनानि च ।

तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ॥ ११ ॥

अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ।

न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ॥ १२ ॥

एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।

विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ १३ ॥

ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ।

ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणोऽग्रजम् ॥ १४ ॥

तं चिन्तया दुःसहया परीतं

विसञ्ज्ञमेकं विजने मनस्वी ।

भ्रातुर्विषादात्परितापदीनः

समीक्ष्य सौमित्रिरुवाच रामम् ॥ १५ ॥

किमार्य कामस्य वशङ्गतेन

किमात्मपौरुष्यपराभवेन ।

अयं सदा संह्रियते समाधिः

किमत्र योगेन निवर्तितेन ॥ १६ ॥

क्रियाभियोगं मनसः प्रसादं

समाधियोगानुगतं च कालम् ।

सहायसामर्थ्यमदीनसत्त्वः

स्वकर्महेतुं च कुरुष्व तात ॥ १७ ॥

न जानकी मानववंशनाथ

त्वया सनाथा सुलभा परेण ।

न चाग्निचूडां ज्वलितामुपेत्य

न दह्यते वीरवरार्ह कश्चित् ॥ १८ ॥

सलक्षणं लक्ष्मणमप्रधृष्यं

स्वभावजं वाक्यमुवाच रामः ।

हितं च पथ्यं च नयप्रसक्तं

ससाम धर्मार्थसमाहितं च ॥ १९ ॥

निःसंशयं कार्यमवेक्षितव्यं

क्रियाविशेषो ह्यनुवर्तितव्यः ।

ननु प्रवृत्तस्य दुरासदस्य

कुमार कार्यस्य फलं न चिन्त्यम् ॥ २० ॥

अथ पद्मपलाशाक्षीं मैथीलीमनुचिन्तयन् ।

उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१ ॥

तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् ।

निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ २२ ॥

स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः ।

विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥ २३ ॥

नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश ।

विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥ २४ ॥

जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।

चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ २५ ॥

घनानां वारणानां च मयूराणां च लक्ष्मण ।

नादः प्रस्रवणानां च प्रशान्तः सहसाऽनघ ॥ २६ ॥

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।

अनुलिप्ता इवाभान्ति गिरयश्चित्रदीप्तिभिः ॥ २७ ॥

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ।

नवसङ्गमसव्रीडा जघनानीव योषितः ॥ २८ ॥

शाखासु सप्तच्छदपादपानां

प्रभासु तारार्कनिशाकराणाम् ।

लीलासु चैवोत्तमवारणानां

श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ २९ ॥

सम्प्रत्यनेकाश्रयचित्रशोभा

लक्ष्मीः शरत्कालगुणोपनीता ।

सूर्याग्रहस्तप्रतिबोधितेषु

पद्माकरेष्वभ्यधिकं विभाति ॥ ३० ॥

सप्तच्छदानां कुसुमोपगन्धी

षट्पादबृन्दैरनुगीयमानः ।

मत्तद्विपानां पवनोऽनुसारी

दर्पं वनेष्वभ्यधिकं करोति ॥ ३१ ॥

अभ्यागतैश्चारुविशालपक्षैः

सरः प्रियैः पद्मरजोवकीर्णैः ।

महानदीनां पुलिनोपयातैः

क्रीडन्ति हंसाः सह चक्रवाकैः ॥ ३२ ॥

मदप्रगल्भेषु च वारणेषु

गवां समूहेषु च दर्पितेषु ।

प्रसन्नतोयासु च निम्नगासु

विभाति लक्ष्मीर्बहुधा विभक्ता ॥ ३३ ॥

नभः समीक्ष्याम्बुधरैर्विमुक्तं

विमुक्तबर्हाभरणा वनेषु ।

प्रियास्वसक्ता विनिवृत्तशोभा

गतोत्सवा ध्यानपरा मयूराः ॥ ३४ ॥

मनोज्ञगन्धैः प्रियकैरनल्पैः

पुष्पातिभारावनताग्रशाखैः ।

सुवर्णगौरैर्नयनाभिरामै-

-रुद्द्योतितानीव वनान्तराणि ॥ ३५ ॥

प्रियान्वितानां नलिनीप्रियाणां

वने रतानां कुसुमोद्धतानाम् ।

मदोत्कटानां मदलालसानां

गजोत्तमानां गतयोऽद्य मन्दाः ॥ ३६ ॥

व्यभ्रं नभः शस्त्रविधौतवर्णं

कृशप्रवाहानि नदीजलानि ।

कल्हारशीताः पवनाः प्रवान्ति

तमोविमुक्ताश्च दिशः प्रकाशाः ॥ ३७ ॥

सूर्यातपक्रामणनष्टपङ्का

भूमिश्चिरोद्घाटितसान्द्ररेणुः ।

अन्योन्यवैरेण समायुताना-

-मुद्योगकालोऽद्य नराधिपानाम् ॥ ३८ ॥

शरद्गुणाप्यायितरूपशोभाः

प्रहर्षिताः पांसुसमुक्षिताङ्गाः ।

मदोत्कटाः सम्प्रति युद्धलुब्धा

वृषा गवां मध्यगता नदन्ति ॥ ३९ ॥

समन्मथं तीव्रगतानुरागाः

कुलान्विता मन्दगतिं करिण्यः ।

मदान्वितं सम्परिवार्य यान्तं

वनेषु भर्तारमनुप्रयान्ति ॥ ४० ॥

त्यक्त्वा वराण्यात्मविभूषणानि

बर्हाणि तीरोपगता नदीनाम् ।

निर्भर्त्स्यमाना इव सारसौघैः

प्रयान्ति दीना विमदा मयूराः ॥ ४१ ॥

वित्रास्य कारण्डवचक्रवाकान्

महारवैर्भिन्नकटा गजेन्द्राः ।

सरःसु बद्धाम्बुजभूषणेषु

विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥ ४२ ॥

व्यपेतपङ्कासु सवालुकासु

प्रसन्नतोयासु सगोकुलासु ।

ससारसा रावविनादितासु

नदीषु हृष्टा निपतन्ति हंसाः ॥ ४३ ॥

नदीघनप्रस्रवणोदकाना-

-मतिप्रवृद्धानिलबर्हिणानाम् ।

प्लवङ्गमानां च गतोत्सवानां

द्रुतं रवाः सम्प्रति सम्प्रनष्टाः ॥ ४४ ॥

अनेकवर्णाः सुविनष्टकाया

नवोदितेष्वम्बुधरेषु नष्टाः ।

क्षुधार्दिता घोरविषा बिलेभ्य-

-श्चिरोषिता विप्रसरन्ति सर्पाः ॥ ४५ ॥

चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।

अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४६ ॥

रात्रिः शशाङ्कोदितसौम्यवक्त्रा

तारागणोन्मीलितचारुनेत्रा ।

ज्योत्स्नांशुकप्रावरणा विभाति

नारीव शुक्लांशुकसंवृताङ्गी ॥ ४७ ॥

विपक्वशालिप्रसवानि भुक्त्वा

प्रहर्षिता सारसचारुपङ्क्तिः ।

नभः समाक्रामति शीघ्रवेगा

वातावधूता ग्रथितेव माला ॥ ४८ ॥

सुप्तैकहंसं कुमुदैरुपेतं

महाह्रदस्थं सलिलं विभाति ।

घनैर्विमुक्तं निशि पूर्णचन्द्रं

तारागणाकीर्णमिवान्तरिक्षम् ॥ ४९ ॥

प्रकीर्णहंसाकुलमेखलानां

प्रबुद्धपद्मोत्पलमालिनीनाम् ।

वाप्युत्तमानामधिकाऽद्य लक्ष्मी-

-र्वराङ्गनानामिव भूषितानाम् ॥ ५० ॥

वेणुस्वनव्यञ्जिततूर्यमिश्रः

प्रत्यूषकालानिलसम्प्रवृद्धः ।

सम्मूर्छितो गह्वरगोवृषाणा-

-मन्योन्यमापूरयतीव शब्दः ॥ ५१ ॥

नवैर्नदीनां कुसुमप्रभासै-

-र्व्याधूयमानैर्मृदुमारुतेन ।

धौतामलक्षौमपटप्रकाशैः

कूलानि काशैरुपशोभितानि ॥ ५२ ॥

वनप्रचण्डा मधुपानशौण्डाः

प्रियान्विताः षट्चरणाः प्रहृष्टाः ।

वनेषु मत्ताः पवनानुयात्रां

कुर्वन्ति पद्मासनरेणुगौराः ॥ ५३ ॥

जलं प्रसन्नं कुमुदं प्रभासं

क्रौञ्चस्वनः शालिवनं विपक्वम् ।

मृदुश्च वायुर्विमलश्च चन्द्रः

शंसन्ति वर्षव्यपनीतकालम् ॥ ५४ ॥

मीनोपसन्दर्शितमेखलानां

नदीवधूनां गतयोऽद्य मन्दाः ।

कान्तोपभुक्तालसगामिनीनां

प्रभातकालेष्विव कामिनीनाम् ॥ ५५ ॥

सचक्रवाकानि सशैवलानि

काशैर्दुकूलैरिव संवृतानि ।

सपत्रलेखानि सरोचनानि

वधूमुखानीव नदीमुखानि ॥ ५६ ॥

प्रफुल्लबाणासनचित्रितेषु

प्रहृष्टषट्पादनिकूजितेषु ।

गृहीतचापोद्यतचण्डदण्डः

प्रचण्डचारोऽद्य वनेषु कामः ॥ ५७ ॥

लोकं सुवृष्ट्या परितोषयित्वा

नदीस्तटाकानि च पूरयित्वा ।

निष्पन्नसस्यां वसुधां च कृत्वा

त्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥ ५८ ॥

प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः ।

चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ ५९ ॥

असनाः सप्तवर्णाश्च कोविदाराश्च पुष्पिताः ।

दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥ ६० ॥

हंससारसचक्राह्वैः कुररैश्च समन्ततः ।

पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥ ६१ ॥

अन्योन्यं बद्धवैराणां जिगीषूणां नृपात्मज ।

उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ ६२ ॥

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ।

न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥ ६३ ॥

चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।

मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ॥ ६४ ॥

चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् ।

विषमं दण्डकारण्यमुद्यानमिव चाङ्गना ॥ ६५ ॥

प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ।

कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ ६६ ॥

अनाथो हृतराज्योऽयं रावणेन च धर्षितः ।

दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ६७ ॥

इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।

अहं वानरराजस्य परिभूतः परन्तप ॥ ६८ ॥

स कालं परिसङ्ख्याय सीतायाः परिमार्गणे ।

कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ ६९ ॥

स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम् ।

मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ ७० ॥

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।

आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ ७१ ॥

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।

सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥ ७२ ॥

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।

तान् मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ७३ ॥

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ।

द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ॥ ७४ ॥

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम सम्युगे ।

निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ॥ ७५ ॥

काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे ।

त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ ७६ ॥

यदर्थमयमारम्भः कृतः परपुरञ्जय ।

समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥ ७७ ॥

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।

व्यतीतांश्चतुरो मासान् विहरन्नावबुध्यते ॥ ७८ ॥

सामात्यपरिषत् क्रीडन् पानमेवोपसेवते ।

शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ ७९ ॥

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।

मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ॥ ८० ॥

न च सङ्कुचितः पन्था येन वाली हतो गतः ।

समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ ८१ ॥

एक एव रणे वाली शरेण निहतो मया ।

त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ ८२ ॥

तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ।

तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ॥ ८३ ॥

कुरुष्व सत्यं मयि वानरेश्वर

प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।

मा वालिनं प्रेत्य गतो यमक्षयं

त्वमद्य पश्येर्मम चोदितैः शरैः ॥ ८४ ॥

स पूर्वजं तीव्रविवृद्धकोपं

लालप्यमानं प्रसमीक्ष्य दीनम् ।

चकार तीव्रं मतिमुग्रतेजा

हरीश्वरे मानववंशनाथः ॥ ८५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥ ३० ॥

valmiki ramayan kishkindhakand adhyay 30