Skip to main content
पडताळणी प्रलंबित

किष्किन्धाकाण्ड एकविंशः

॥ हनुमदाश्वासनम् ॥

ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।

शनैराश्वासयामास हनुमान् हरियूथपः ॥ १ ॥

गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् ।

अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ २ ॥

शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे ।

कस्य को वाऽनु शोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ ३ ॥

अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।

आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ ४ ॥

जानास्यनियतामेवं भूतानामागतिं गतिम् ।

तस्माच्छुभं हि कर्तव्यं पण्डितेनैहलौकिकम् ॥ ५ ॥

यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च ।

वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥ ६ ॥

यदयं न्यायदृष्टार्थः सामदानक्षमापरः ।

गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ ७ ॥

सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः ।

इदं हर्यृक्षराज्यं च त्वत्सनाथमनिन्दिते ॥ ८ ॥

ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि ।

त्वाया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ९ ॥

सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् ।

राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः ॥ १० ॥

संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम् ।

सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ११ ॥

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।

अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥ १२ ॥

अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् ।

हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३ ॥

न चाहं हरिराजस्य प्रभावाम्यङ्गदस्य वा ।

पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ १४ ॥

न ह्येषा बुद्धिरास्थेया हनुमन्नङ्गदं प्रति ।

पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ १५ ॥

न हि मम हरिराजसंश्रयात्

क्षमतरमस्ति परत्र चेह वा ।

अभिमुखहतवीरसेवितं

शयनमिदं मम सेवितुं क्षमम् ॥ १६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥ २१ ॥

valmiki ramayan kishkindhakand adhyay 21