Skip to main content
पडताळणी प्रलंबित

श्री बाला कवचम् – ३ (दुःस्वप्ननाशकम्)

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।

पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॥ १ ॥

पूर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे ।

मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥ २ ॥

ऊर्ध्वं पातु महादेवी श्रीबाला त्रिपुरेश्वरी ।

अधस्तात्पातु देवेशी पातालतलवासिनी ॥ ३ ॥

आधारे वाग्भवः पातु कामराजस्तथा हृदि ।

महाविद्या भगवती पातु मां परमेश्वरी ॥ ४ ॥

ऐं लं ललाटे मां पायात् ह्रौं ह्रीं हंसश्च नेत्रयोः ।

नासिका कर्णयोः पातु ह्रीं ह्रौं तु चिबुके तथा ॥ ५ ॥

सौः पातु मे हृदि गले ह्रीं ह्रः नाभिदेशके ।

सौः क्लीं श्रीं गुह्यदेशे तु ऐं ह्रीं पातु च पादयोः ॥ ६ ॥

ह्रीं क्लीं मां सर्वतः पातु सौः पायात् पदसन्धिषु ।

जले स्थले तथा कोशे देवराजगृहे तथा ॥ ७ ॥

क्षें क्षें मां त्वरिता पातु मां चक्री सौः मनोभवा ।

हंसौः पायान्महादेवी परं निष्कलदेवता ॥ ८ ॥

विजया मङ्गला दूती कल्पा मां भगमालिनी ।

ज्वालामालिनी नित्या सर्वदा पातु मां शिवा ॥ ९ ॥

इतीदं कवचं देवि देवानामपि दुर्लभम् ।

तव प्रीत्या समाख्यातं गोपनीयं प्रयत्नतः ॥ १० ॥

इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये ।

धन्यं प्रशस्यमायुष्यं भोगमोक्षप्रदं शिवम् ॥ ११ ॥

इति दुःस्वप्ननाशक श्री बाला कवचम् ।

duswapna nashaka bala kavacham