Skip to main content
पडताळणी प्रलंबित

श्री महालक्ष्मी कवचम् १

अस्य श्रीमहालक्ष्मी कवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः महालक्ष्मीर्देवता श्रीमहालक्ष्मी प्रीत्यर्थं जपे विनियोगः ॥

इन्द्र उवाच ।

समस्तकवचानां तु तेजस्वि कवचोत्तमम् ।

आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ १ ॥

श्रीगुरुरुवाच ।

महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।

चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ २ ॥

ब्रह्मोवाच ।

शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।

चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ ३ ॥

घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी ।

मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ ४ ॥

स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी ।

बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ ५ ॥

वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी ।

कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ ६ ॥

कटिं च पातु वाराही सक्थिनी देवदेवता ।

ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ ७ ॥

इन्दिरा पातु जङ्घे मे पादौ भक्तनमस्कृता ।

नखान् तेजस्विनी पातु सर्वाङ्गं करुणामयी ॥ ८ ॥

ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः ।

ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ ९ ॥

कवचेनावृताङ्गानां जनानां जयदा सदा ।

मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ १० ॥

भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम् ।

लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ ११ ॥

नामत्रयमिदं जप्त्वा स याति परमां श्रियम् ।

यः पठेत्स च धर्मात्मा सर्वान् कामानवाप्नुयात् ॥ १२ ॥

इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं श्री महालक्ष्मी कवचम् ॥

sri mahalakshmi kavacham 1