Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती कवचम् (ब्रह्मवैवर्तपुराणे)

भृगुरुवाच ।

ब्रह्मन् ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद ।

सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ १ ॥

सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।

अयातयाममन्त्राणां समूहो यत्र सम्युतः ॥ २ ॥

ब्रह्मोवाच ।

शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।

श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ३ ॥

उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।

रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ४ ॥

अतीव गोपनीयं च कल्पवृक्षसमं परम् ।

अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ५ ॥

यद्धृत्वा पठनाद्ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ।

यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥ ६ ॥

पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः ।

स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ ७ ॥

कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।

ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ८ ॥

धृत्वा वेदविभागं च पुराणान्यखिलानि च ।

चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ९ ॥

शातातपश्च संवर्तो वशिष्ठश्च पराशरः ।

यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ १० ॥

ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ।

जैगीषव्योऽथ जाबालिर्यद्धृत्वा सर्वपूजितः ॥ ११ ॥

कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।

स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ॥ १२ ॥

सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ।

कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ १३ ॥

– कवचं –

ओं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।

श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ॥ १४ ॥

ओं सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ।

ओं श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ १५ ॥

ओं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु ।

ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा श्रोत्रं सदाऽवतु ॥ १६ ॥

ओं श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तीः सदाऽवतु ।

ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥ १७ ॥

ओं श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।

श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ १८ ॥

ओं ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।

ओं ह्रीं क्लीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ॥ १९ ॥

ओं सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।

ओं वागधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु ॥ २० ॥

ओं सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ।

ओं ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥ २१ ॥

ओं ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।

सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ २२ ॥

ओं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां मे सदाऽवतु ।

कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ २३ ॥

ओं सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।

ओं गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ २४ ॥

ओं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।

ओं ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ २५ ॥

ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।

ओं ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ॥ २६ ॥

इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।

इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ २७ ॥

पुरा श्रुतं धर्मवक्त्रात् पर्वते गन्धमादने ।

तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ २८ ॥

गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।

प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥ २९ ॥

पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।

यदि स्यात् सिद्धकवचो बृहस्पति समो भवेत् ॥ ३० ॥

महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।

शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः ॥ ३१ ॥

इदं ते काण्वशाखोक्तं कथितं कवचं मुने ।

स्तोत्रं पूजाविधानं च ध्यानम् वै वन्दनं तथा ॥ ३२ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे चतुर्थोऽध्याये श्री सरस्वती कवचम् ॥

sri saraswati kavacham