Skip to main content
पडताळणी प्रलंबित

श्री धूमावती कवचम्

श्रीपार्वत्युवाच ।

धूमावत्यर्चनं शम्भो श्रुतं विस्तरतो मया ।

कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १ ॥

श्रीभैरव उवाच ।

शृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे ।

कवचं श्रीधूमावत्याः शत्रुनिग्रहकारकम् ॥ २ ॥

ब्रह्माद्या देवि सततं यद्वशादरिघातिनः ।

योगिनो भवच्छत्रुघ्ना यस्या ध्यानप्रभावतः ॥ ३ ॥

ओं अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप् छन्दः श्रीधूमावती देवता धूं बीजं स्वाहा शक्तिः धूमावती कीलकं शत्रुहनने पाठे विनियोगः ।

कवचम् ।

ओं धूं बीजं मे शिरः पातु धूं ललाटं सदाऽवतु ।

धूमा नेत्रयुगं पातु वती कर्णौ सदाऽवतु ॥ ४ ॥

दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा ।

शूर्पहस्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥ ५ ॥

मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।

सर्वविद्याऽवतु कण्ठं विवर्णा बाहुयुग्मकम् ॥ ६ ॥

चञ्चला हृदयं पातु धृष्टा पार्श्वे सदाऽवतु ।

धूमहस्ता सदा पातु पादौ पातु भयावहा ॥ ७ ॥

प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।

क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८ ॥

सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।

इति ते कथितं पुण्यं कवचं भुवि दुर्लभम् ॥ ९ ॥

न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।

पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।

दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ १० ॥

इति भैरवीभैरवसंवादे धूमावती कवचं सम्पूर्णम् ।

sri dhumavati kavacham