Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी कवचम् – १ (रुद्रयामले)

विनियोगः –

अस्य श्रीपीताम्बरा बगलामुखी कवचस्य महादेव ऋषिः, उष्णिक् छन्दः, श्रीपीताम्बरा देवता, स्थिरमाया बीजं, स्वाहा शक्तिः, अं ठः कीलकं, मम सन्निहितानां दूरस्थानां सर्वदुष्टानां वाङ्मुखपदजिह्वापवर्गाणां स्तम्भनपूर्वकं सर्वसम्पत्तिप्राप्ति चतुर्वर्गफलसाधनार्थे जपे विनियोगः ॥

ध्यानम् –

मध्येसुधाब्धिमणिमण्डपरत्नवेद्यां

सिंहासनोपरिगतां परिपीतवर्णाम् ।

पीताम्बराभरणमाल्यविभूषिताङ्गीं

देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥

जिह्वाग्रमादाय करेण देवीं

वामेन शत्रून् परिपीडयन्तीम् ।

गदाभिघातेन च दक्षिणेन

पीताम्बराढ्यां द्विभुजां नमामि ॥

पीठिका –

हिमवत्तनया गौरी कैलासेऽथ शिलोच्चये ।

अपृच्छद्गिरिशं देवी साधकानुग्रहेच्छया ॥ १ ॥

श्रीपार्वत्युवाच ।

देवदेव महादेव भक्तानुग्रहकारक ।

शृणु विज्ञाप्यते यत्तु श्रुत्वा सर्वं निवेदय ॥ २ ॥

विशुद्धाः कौलिका लोके ये मत्कर्मपरायणाः ।

तेषां निन्दाकरा लोके बहवः किल दुर्जनाः ॥ ३ ॥

मनोबाधां विदधते मुहुः कटुभिरुक्तिभिः ।

तेषामाशु विनाशाय त्वया देव प्रकाशितः ॥ ४ ॥

यो मन्त्रो बगलामुख्याः सर्वकामसमृद्धिदः ।

कवचं तस्य मन्त्रस्य प्रकाशय दयानिधे ॥ ५ ॥

यस्य स्मरणमात्रेण पशूनां निग्रहो भवेत् ।

आत्मानं सततं रक्षेद्व्याघ्राग्निरिपुराजतः ॥ ६ ॥

श्रुत्वाऽथ पार्वतीवाक्यं ज्ञात्वा तस्या मनोगतम् ।

विहस्य तां परिष्वज्य साधु साध्वित्यपूजयत् ।

तदाह कवचं देव्यै कृपया करुणानिधिः ॥ ७ ॥

श्रीशङ्कर उवाच ।

शृणु त्वं बगलामुख्याः कवचं सर्वकामदम् ।

यस्य स्मरणमात्रेण बगलामुखी प्रसीदति ॥ ८ ॥

कवचं –

सर्वसिद्धिप्रदा प्राच्यां पातु मां बगलामुखी ।

पीताम्बरा तु चाग्नेय्यां याम्यां महिषमर्दिनी ॥ ९ ॥

नैरृत्यां चण्डिका पातु भक्तानुग्रहकारिणी ।

पातु नित्यं महादेवी प्रतीच्यां शूकरानना ॥ १० ॥

वायव्ये पातु मां काली कौबेर्यां त्रिपुराऽवतु ।

ईशान्यां भैरवी पातु पातु नित्यं सुरप्रिया ॥ ११ ॥

ऊर्ध्वं वागीश्वरी पातु मध्ये मां ललिताऽवतु ।

अधस्तादपि मां पातु वाराही चक्रधारिणी ॥ १२ ॥

मस्तकं पातु मे नित्यं श्रीदेवी बगलामुखी ।

फालं पीताम्बरा पातु नेत्रे त्रिपुरभैरवी ॥ १३ ॥

श्रवणौ विजया पातु नासिकायुगलं जया ।

शारदा वचनं पातु जिह्वां पातु सुरेश्वरी ॥ १४ ॥

कण्ठं रक्षतु रुद्राणी स्कन्धौ मे विन्ध्यवासिनी ।

सुन्दरी पातु बाहू मे जया पातु करौ सदा ॥ १५ ॥

भवानी हृदयं पातु मध्यं मे भुवनेश्वरी ।

नाभिं पातु महामाया कटिं कमललोचना ॥ १६ ॥

ऊरू मे पातु मातङ्गी जानुनी चापराजिता ।

जङ्घे कपालिनी पातु चरणौ चञ्चलेक्षणा ॥ १७ ॥

सर्वतः पातु मां तारा योगिनी पातु चाग्रतः ।

पृष्ठं मे पातु कौमारी दक्षपार्श्वे शिवाऽवतु ॥ १८ ॥

रुद्राणी वामपार्श्वे तु पातु मां सर्वदेष्टदा ।

स्तुता सर्वेषु देवेषु रक्तबीजविनाशिनी ॥ १९ ॥

फलश्रुतिः –

इत्येतत् कवचं दिव्यं धर्मकामार्थसाधनम् ।

गोपनीयं प्रयत्नेन कस्यचिन्न प्रकाशयेत् ॥ २० ॥

यः सकृच्छृणुयादेतत् कवचं मन्मुखोदितम् ।

स सर्वान् लभते कामान् मूर्खो विद्यामवाप्नुयात् ।

तस्याशु शत्रवो यान्ति यमस्य भवने शिवे ॥ २१ ॥

इति श्रीरुद्रयामले महातन्त्रे श्री बगलामुखी कवचम् ।

sri bagalamukhi kavacham 1 rudrayamale