Skip to main content
पडताळणी प्रलंबित

श्री गणेश कवचम्

गौर्युवाच ।

एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।

अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।

अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २ ॥

मुनिरुवाच ।

ध्यायेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे

त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।

द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं

तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥

विनायकः शिखां पातु परमात्मा परात्परः ।

अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४ ॥

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।

नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५ ॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।

वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ ६ ॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।

गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७ ॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।

हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ ८ ॥

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।

लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९ ॥

गणक्रीडो जानुजङ्घे ऊरू मङ्गलमूर्तिमान् ।

एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १० ॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।

अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११ ॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।

अनुक्तमपि यत्स्थानं धूमकेतुः सदाऽवतु ॥ १२ ॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।

प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १३ ॥

दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।

प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४ ॥

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।

दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५ ॥

राक्षसासुरभेतालग्रहभूतपिशाचतः ।

पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतीः ॥ १६ ॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम् ।

वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७ ॥

सर्वायुधधरः पौत्रान्मयूरेशोऽवतात्सदा ।

कपिलोऽजाविकं पातु गजाश्वान्विकटोऽवतु ॥ १८ ॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।

न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८ ॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।

यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २० ॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।

मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥ २१ ॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिः ।

तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २२ ॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।

कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३ ॥

राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।

स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४ ॥

इदं गणेशकवचं कश्यपेन समीरितम् ।

मुद्गलाय च तेनाथ माण्डव्याय महर्षये ॥ २५ ॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।

न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥

अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ।

राक्षसासुरभेतालदैत्यदानवसम्भवा ॥ २७ ॥

इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां षडशीतितमेऽध्याये गणेश कवचम् ।

sri ganesha kavacham