Skip to main content
पडताळणी प्रलंबित

श्री ललिता कवचम्

सनत्कुमार उवाच ।

अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ।

येन देवासुरनरजयी स्यात्साधकः सदा ॥ १ ॥

सर्वतः सर्वदात्मानं ललिता पातु सर्वगा ।

कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ २ ॥

दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।

नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ ३ ॥

तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ।

महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ ४ ॥

वामपार्श्वं सदा पातु इतीमेलरिता ततः ।

माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥ ५ ॥

पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी ।

अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ ६ ॥

करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।

देहेन्द्रियमनःप्राणाञ्ज्वालामालिनिविग्रहा ॥ ७ ॥

पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ।

कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ८ ॥

पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा ।

असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा ।

स्तैमित्याच्च सदा पातु प्रेरयन्त्यः शुभं प्रति ॥ ९ ॥

नित्याः षोडश मां पातु गजारूढाः स्वशक्तिभिः ।

तथा हयसमारूढाः पातु मां सर्वतः सदा ॥ १० ॥

सिंहारूढास्तथा पातु पातु ऋक्षगता अपि ।

रथारूढाश्च मां पातु सर्वतः सर्वदा रणे ॥ ११ ॥

तार्क्ष्यारूढाश्च मां पातु तथा व्योमगताश्च ताः ।

भूतगाः सर्वगाः पातु पातु देव्यश्च सर्वदा ॥ १२ ॥

भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ।

द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ १३ ॥

गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।

असङ्ख्याः शक्तयो देव्यः पातु मां सर्वतः सदा ॥ १४ ॥

सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।

कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ १५ ॥

इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ।

यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ १६ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे

बृहदुपाख्याने एकोननवतितमोऽध्याये श्री ललिता कवचम् ।

sri lalitha kavacham